2023-03-20 00:00:33 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[ Hanuman Nātakam]
नीत्वा सीतां किमिति तुरगांस्ताडयामास दण्डैः १
सर्वलक्षणोपेतान्देवभूपालयोग्यान्मेदुरमन्दुरायां तुरगानवलो-
क्य मारज्वराकुलितचित्तभ्रांत्या वधूपुत्रयोर्मङ्गलावलोकना-
यागतस्य भगवतस्तरणेः किरणमालिनस्तुरगा इमे स्वभाव
तेजस्विनस्तत्ताडनमसोढारस्ताडिताः पुनः पुनर्भगवन्तं
भास्करं द्रुतगत्यास्ताचलं नयन्त्विति बुद्ध्वा दाशरथिर्जन-
कपुत्री च दण्डाघातैस्तुरगांस्ताडयामास निशायां प्रौढायां
शीघ्रमावयोः संगमो भवत्वित्यभिप्रायः ।
अस्तं याते मुकुलनलिनीबान्धवे सिन्धुपुत्रे
प्राचीभागे प्रमदमुदिते पक्वनारिङ्गपिङ्गे ।
रामं कामं गुरुजनगिरा मन्दिरं सुन्दरं स्वं
रम्भोरुस्तं जनकतनया नन्दयन्ती जगाम २
प्राचीभागे सरागे तरणिविरहिणि क्रान्तमुद्रे समुद्रे
निद्रालौ नीरजालौ विकसितकुमुदे निर्विकारे चकोरे
आकाशे सावकाशे तमसि शममिते कोकलोके सशोके
कंदर्पेऽनल्पदर्पे वितरति किरणाञ्छर्वरीसार्वभौमः ३
भविष्ये रामशापेत्यन्तनिकटवर्तिनि कोकलोकानामकस्मा-
न्महोत्पातनिमित्तं पार्श्वस्थितानामपि प्रियाणामनवलोकतः
शोकसंभवः ॥
स्वैरं कैरवकोरकान्विदलयन्यूनां मनः खेदय-
न्नम्भोजानि निमीलयन्मृगदृशां मानं समुन्मूलयन्
ज्योत्स्नां कन्दलयंस्तमः कवलयन्नम्भोधिमुद्वेलय-
न्कोकानाकुलयन्दिशो धवलयन्निन्दुः समुज्जृम्भते ४
अद्यापि स्तनतुङ्गशैलशिखिरे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-
11