2023-03-20 00:00:50 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
स्त्यक्ता येन गुरोर्गिरा वसुमती सेतुः पयोधौ कृतः ।
एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते
दैवं वर्णय येन सोपि सहसा नीतः कथाशेषताम् ६३
रम्यं श्रीरामचन्द्रप्रबलभुजबृहत्ताण्डवं काण्डशौण्ड-
व्याप्तं ब्रह्माण्डभाण्डे रणशिरसि महानाटकं पाटवाब्धिम् ॥
पुण्यं भक्त्याञ्जानेयप्रविरचितमिदं यः शृणोति प्रसङ्गा-
न्मुक्तोऽसौ सर्वपापादरिभटविजयी रामवत्सङ्गरेषु ६४
चतुर्दशभिरेवाङ्कैर्भुवनानि चतुर्दश ।
श्रीमहानाटकं धत्ते केवलं ब्रह्म निर्मलम् ६५
रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ
निहितममृतबुद्ध्या प्राङ् महानाटकं यत् ।
सुमतिनृपतिभोजेनोद्धृतं तत्क्रमेण
ग्रथितमवतु विश्वं मिश्रदामोदरेण ६६
इति श्रीपवनतनयविरचितमिश्रदामोदरसंगृहीत-
हनुमन्नाटके श्रीरामविजयो नाम चतुर्दशोऽङ्कः समाप्तः १४
106