This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
प्रोद्यत्पूर्णसुधांशुबिम्बमसृणज्योस्नाश्च तत्पांसवः ८५
समुद्गतौ यत्समकालमेव यशः प्रतापो तव पुष्पवन्तौ ।
रामारिचापश्च मदश्च शेषस्त्वत्खड्गतीर्थं तदनिष्टशान्त्यै ८६
किंचित्कोपकलाविलासविभवव्यावल्गमूर्ते भुजो
 
निक्षेपादकरोन्निशाचरबलं प्रत्यर्थिनां यत्पुरः ।
क्रंदत्स्फेरु रटत्कफेर विघटद्दार स्फुटद्गुग्गुलु
प्रक्रीडत्कपिनिःश्वसत्फणिरटद्भिल्लिभ्रमद्वीपि च ८७
शैत्यं ज्ञानविकारिणो न हि भवेत्रद्रुहो वाहिनी
यैर्दृष्ट्वा रणलम्पटं भुजयुगं दृष्टं पुनस्तावकम् ।
यस्याश्रित्य बलं स्थलीकृतसरिन्नाथः प्लवङ्गेश्वरैः
क्रान्तो भूरिभयेन यत्र शिशिरा यस्यां मयूखा रवेः ८८
 
रामः-
प्रस्थाप्य तां वानरवीरसेनां तत्कालयोग्याभरणप्रदानैः ।
भुनक्ति राज्यं निजबन्धुवर्गैः समं ससीतः सहलक्ष्मणश्च ८६
रामो दाशरथिर्दिवाकरकुले तस्याङ्गना जानकी
नीता सा दशकन्धरेण वनतो लंकालयं छद्मना ।
 
रामेणापि कपीन्द्रसंगमवशादम्भोनिधिं लीलया
बद्ध्वा पर्वतमालया रिपुवधादानीय निर्वासिता ६०
तत्र त्यत्कसीतो लक्ष्मणो विलपति--
वने विमोक्तुं जनकस्य कन्यां श्रोतुं च तस्याः परिदेवितानि ।
सुखेन लंकासमरे हतं मामजीवयन्मारुतिरात्तवैरः ६१
पशुरपि न मृगो मृगीं मृगेन्द्र-
ध्वनिचकितः प्रसवक्षणे जहाति ।
श्रयमरघुरजानकीयमावां
 
यदि न स जीवति निर्दयोऽद्य वेधाः ६२
यद्भग्नं धनुरीश्वरस्य समरे यज्जामदग्न्यो जित-
105