This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
स्वर्गङ्गा गृहदीर्घिका हिमरुचिश्चन्द्रोपलो दर्पणः ।
क्षीराब्धिर्नवपूतकं किमपरं शेषस्तु शेषत्विषो
 
८०
 
विन्दवः ।
 
यस्याः स्यादिह राघवक्षितिपते कीर्तेस्तटाकस्तव ७८
क्रांत्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी गता
सापि ब्रह्ममरालसङ्गमवशात्तत्रैव गर्भिण्यभूत् ।
यात्वा व्योमतरङ्गिणीपरिसरे कुन्दावदातं तया
मुक्तं भाति विशांकुरं ततमिदं शीतद्युतेर्मण्डलम् ७६
राम राम महावीर के वयं गुणवर्णने ।
यत्कीर्तिकामिनीभाले कस्तूरीतिलकं नभः
लक्ष्मीस्तिष्ठति ते गेहे वाचि भाति सरस्वती ।
कीर्तिः किं कुपिता राम येन देशान्तरं गता ८१
राम त्वद्भुजदण्डिडिण्डिमडमत्कारप्नतापानल-
ज्वालाजर्जरकीर्तिपारदघटीविस्फोटिता
भोगीन्द्राः कति तारकाः कति कति क्षीराब्धयः कत्यपि
प्रालेयाचलपाञ्चजन्यकरकाः कर्पूरकुन्देन्दवः ८२
अत्युक्तो यदि न प्रकुप्यसि मृषा वादं न चेन्मन्यसे
तद्ब्रमोऽद्भुतकीर्तनेन रसना केषां न कण्डूयते ।
राम त्वत्तरुणप्रतापदहनज्वालावलीशोषिताः
सर्वे वारिधयस्ततो रिपुवधूनेत्राम्बुभिः पूरिताः ८३
खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालय-
च्छायामाश्रयते शशी मशकतामायान्ति तारादयः ।
इत्थं वर्णयतो नभस्तव यशो यातं स्मृतेर्गोचरं
यच्चास्मिन्भ्रमरायते रघुपते वाचस्ततो मुद्रिताः ८४
कृत्वा मेरुमुलूखलं रघुपते वृन्देन दिग्योषितां
स्वर्गङ्गामुसलेन शालय इव त्वत्कीर्तयः कण्डिताः ।
तासां राशिरसौ तुषारशिखरी तारागणास्तत्कणाः
 
104