This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
 
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
यतस्त्रैलोक्यनाथोसि न च त्याज्यं गुरोर्वचः ७२
पश्य श्रीरामचन्द्र त्वदभिमतमहो लक्ष्मणेनापि पूर्णे
तूर्णं रङ्गावतारेऽवतरतु स भवानाहतो येन तातः ।
सुग्रीवेणाञ्जनेयप्रमुखभटचमूचक्रवालेन सार्द्ध
त्वामेकेनाङ्गदोहं पितृनिधनमनुस्मृत्य मथ्नामि दोष्णा ७३
श्रुत्वाङ्गदस्य महतीं समरप्रतिज्ञां
ते चुक्षुभुः कपिचमूपतयः सरामाः ।
सौमित्रिरप्यनपराधिनमाहतं तं
मत्वा कृतांजलिपुटः पुरतो बभूव ७४
 
तदा च--
आकाशवाण्यभवदेवमहो स वाली
दासो हनिष्यति पुनर्मथुरावतारे ।
श्रुत्वा विलोक्य रघुनन्दनवानराणां
कारुण्यमञ्जलिपुटं स रणान्निवृत्तः ७५
 
अङ्गदः--
पितृवधप्रतीकारो भविष्यतीति सानन्दं कोपमपहाय
शान्तिमेत्य रामं स्तौति ॥
 
देव--
अकर्णमकरोच्छेषं विधिर्ब्रह्माण्डभङ्गधीः ।
गुणानाकर्ण्य रामस्य शिरः कम्पभयादिव ७६
हनूमान्--
[Hanuman Nātakam]
 
कूर्मः पादोङ्गयष्टिर्भुजगपतिरसौ भाजनं भूतधात्री
तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्त्तिप्ररोहः ।
अर्चिश्चण्डांशुरोचिर्गगनमलिनिमा कज्जलनं दह्यमान-
शत्रुश्रेणीपतङ्गो ज्वलति रघुपते त्वत्प्रतापप्रदीपः ७७
कैलासो निलयस्तुषारशिखरी विंदिर्गिरीशः सखा
 
103