This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
संग्रामं प्रथयन्त्यमी परिमलप्रोद्गारिमन्दानिलाः ६६
ततः समुद्रे सेतुमासाद्य जानकी भो प्राणनाथार्यपुत्र !--
दृष्टोऽयं सरितां पतिः प्रियतम क्वास्ते स सेतुः परं
क्वेति क्वेति मुहुर्मुहुः सकुतुकं पृष्टे परं विस्मिते ।
अत्रासीदयमत्र नात्र किमिति व्यग्रे निजप्रेयसि
व्यावृत्तास्यसुधानिधिः समभवन्मन्दस्मिता जानकी ६७
 
मुखदर्शनक्षुब्धजलधिकल्लोलैराच्छादितस्य
सेतोः प्रकटनाय मुखव्यावृत्तिरिति भावः ।
स्नात्वा पीत्वा दरीभिर्जलधिमथ चिराद्दृष्टमैनाकबन्धु-
प्रीतिप्रौढाशुपूरद्विगुणमहिमभिर्निर्झराः पूरयन्तः ।
ये विन्यस्ताः पुरस्तान्निशिनिशि निवहैरौषधीनां ज्वलद्भि-
स्ते, दृश्यन्ते तदम्भःस्थितकपिशिबिरस्मारिणः सेतुशैला ६८
यदा दूरापातित्रिदशयुवतीनेत्रसुलभा-
मपां हर्ता हारावलिवलयलक्ष्मीं वितनुते ।
तदायं माणिक्यस्फटिककनकग्रावशिखरै
रशून्यात्मा सेतुर्विभवति महानाटक इव ६६
जगाम रामः सह सीतया स्वां पुरीमयोध्यां सह वानरेन्द्रैः ।
प्रत्यागतैस्तैर्भरतादिभिश्च राज्येऽभिषिक्तो मुनिभिश्चिराय ७०
हित्वैकां हरशेखरप्रणयिनीं पीयूषभानोः कलां
दिक्पालावलिमौलिभूषणमणीन् गृह्णीत सर्वानपि ।
तैः कांची रचिता चिराय बहुशः श्रोणीतटे जानकी
गायन्ती निजमंजुसिञ्जितगिरा त्वद्विक्रमाडम्बरम् ७१
 
अङ्गदः
 
अकस्मात् वानरभटेभ्यः समुत्पत्य पितृहन्तारमव-
लोक्य दोस्तम्भास्फालकेलिमभिनीय क्रोधं नाटयति ॥
रामचन्द्र त्वयादिष्टं यद्यत्तत्तन्मया कृतम् ।
 
102