2023-03-20 00:00:50 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
रामः (सहर्ष) प्रियेजानकि-
निवासः कान्तारे प्रियजनवियोगाधिरधिको
धनुर्मात्रत्राणं रिपुरपि धुरीणः पलभुजाम् ।
अकूपारंपारे वसति च स कात्र प्रतिकृतिर्न-
मित्रं सुग्रीवो यदि तदियती राघवकथा ६२
(अत्रांतरे चन्द्रोदयो बभूव) रामः-- देवि !
पश्योदेति वियोगिनो दिनमणिः शृंगारदीक्षामणिः
प्रौढानङ्गभुजङ्गमस्तकमणिश्चण्डीशचूडामणिः ।
तारामौक्तिकहारनायकमणिः कन्दर्पसीमन्तिनी-
[Hanuman Nātakam]
काञ्चीमध्यमणिश्चकोरतरुणीचिन्तामणिश्चन्द्रमाः ६३
काकुत्स्थः कृतकुतुकाक्षिमीललीलः ।
सम्पूर्णे शशिनि चिराय लग्नदृष्टेः
प्रेयस्याः स्थगयति लोचने कराभ्याम् ६४
(अत्र रात्रौ सुखसुप्ताः सर्वे यथास्थानं प्रातरागत्य )
बिभीषणः रामपादौ प्रणम्य देव-
किंकुर्वाणपयोधिसेवितगृहोद्याना मुदे सर्वतो
लंकेयं रघुवंशविक्रमकथाबीजप्ररोहस्थली ।
देवेनात्र दशाननस्य दशभिश्छिन्नैः शिरोभिः क्रमा-
देकैकेन शतं शतं शतमखस्यामोदिता दृष्टयः ६५
प्राचीनस्मृतविरहव्यथातिभीतः
रामस्ततस्तत्कालयोग्योपकरणैश्छत्रचामरादिभिर्वि-
भीषणं संभाव्य पुनरयोध्यां राज्यभोगाय प्रस्थितः ॥
तत्र सुग्रीवः देव--
वाजिव्रातखुरप्रहारदलितक्षोणीरजोभिर्युतं
सान्द्रैर्जीर्णकपोतकण्ठरुचिभिर्व्यामेदमास्तीर्यते ।
किञ्चाब्रेककरीन्द्रगण्डविलसद्दानाम्बुधाराघनं
101