This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 

 
माभूवन्निति भावः
सुग्रीवो रामं विज्ञापयति देव !
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
— —
 
इयमियं त्वयि दानवनंदिनी त्रिदशनाथजितः प्रसवस्थली ।
किमपरं दशक्रन्धरगेहिनी त्वयि करोति करद्वययोजनम ५८
रामो नम्राननो भूत्वा --
 
किमाज्ञापयति महाभागा मन्दोदरी )
मन्दोदरी--
धन्या राम त्वया माता धन्यो राम त्वया पिता ।
धन्यो राम त्वया वंशः परदारान्न पश्यसि ५६
साधु राम साधु अतः परं मम का गतिः ।
 
रामः
 
महः भागे न खलु राक्षसीनां सहगमने धर्मः ।
अतस्त्वया विभीषणालयमास्थाय लंकाचले राज्यं
चिराय भुज्यतामिति । विभीषणं लंकाधिपत्याभिषेकं
नाटयति । ततो रामः आत्मानं पुष्पकविमाने जानकीं
चारोप्य समरभूमिं दर्शयति प्रिये जानकि ! पश्य ।
अत्रासीत्फणिपाशबन्धनविधिः शक्तया भवद्देवरे
गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः
केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ६०
हन्तीति ज्वलितः कृशः कपिरपि व्रीडावनम्राननो
लीलालंघितवाहिनीपतिरिति श्लाघाचलत्कन्धरः ।
रामस्यायमितीर्ष्यया कलुषितः पश्यन् प्रिये त्वत्कृते
विक्रामत्यनिलात्मजे दशमुखः कां कामवस्थां गतः ६१
जानकी ( सविस्मयम्) --
 
भो प्राणनाथ तथाविधात् वनान्तात् कथमिहागतः ।
 
100