This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
सत्यब्रह्मतपोनिधे भगवतः किं किं न लोकोत्तरम् ५३
सदयं परशुरामः
 
माता का न शिशोर्वचांसि कुरुते दासीजनोक्तानि या
कस्तातः प्रमदाप्रतारितमतिर्जानाति कृत्यं न यः
कश्चायं भरतश्रियामविधिना यो राजते दुर्नयो
व्याषेधार्थमधिज्यधन्वनि मयि श्रीरामभृत्यो स्थिते ५४
ज्ञात्वावतारं रघुनन्दस्य स्वकीयमालिङ्ग्य ततोऽवगाढम्
विन्यस्य तस्मिञ्जमदग्निसूनुस्तेजो महत्क्षत्रवधान्निवृत्तः ५५
 
रामविवाहवर्णनम्
 
निः साणमर्दलरसालगभीरभेरीझङ्कारतालरवकाहलनादजालैः
पूर्णं बभूव धरणीगगनान्तरालं पाणिग्रहे रघुपतेर्जनकात्मजायाः
 
५६
 
रामे श्यामे सकामे स्पृशति जनकजापाणिपद्मं प्रदत्तं
पित्रा नेत्रालिपद्ये प्रवरपुरवधूमण्डलानां मुहूर्ते
तत्पाणिस्पर्शसौख्यं परमनुभवती सच्चिदानन्दरूपं
तत्रासीद्वाणभिन्ना रमणरतिपतेर्योगनिद्रां गतेव ५७
वैवाहिकं कुशिकनन्दनजामदग्न्य-
वाल्मीकिगौतमवसिष्ठपुरोहिताद्यैः ।
रामो विधिं सह समाप्य सलक्ष्मणस्तै-
रानन्दयञ्जनकजां स्वपुरं जगाम ५८
 
इति श्रीहनुमन्नाटके जानकीस्वयंवरो नाम प्रथमोऽङ्कः १
 
द्वितीयोऽङ्कः
 
प्राप्यायोध्यां स्वजनपरमोत्साहसंभावनाभि-
र्नत्वा मूर्ध्नाऽखिलगुरुजनं सीतया लक्ष्मणेन
रामो यामत्रयमपि कथं मारनाराचभिन्नो
 
10