This page has not been fully proofread.

श्री हनुमन्नाटकम्
 
प्रथमोऽङ्कः
 
कल्याणानां निधानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम १
पातु श्रीस्तनपत्त्रमङ्गमकरीमुद्राङ्कितोरः स्थलो
देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।
क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्रांकुरे यस्य भू-
र्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः २
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ३
तं रामं रावणारिं दशरथतनयं लक्ष्मणाग्र्यं गुणाढ्यं
पूज्यं प्राज्यं प्रतापावलयितजलधिं सर्वसौभाग्यसिद्धिम्
विद्यानन्दैककन्दं कलिमलपटलध्वंसिनं सौम्यदेवं
सर्वात्मानं नमामि त्रिभुवनशरणं प्रत्यहं निष्कलङ्कम् ४
अथोपक्रमः
 
आसीदुद्भटभूपतिप्रतिभटप्रोन्माथिविक्रान्तिको
भूपः पंक्तिरथो विभावसुकुलप्रख्यातकेतुर्बली ।
उर्वीबर्बरभूरिभारहरणे भूरिश्रवाः पुत्रतां
 
यस्यार स्वमथो विधाय महितः पूर्णश्चतुर्धा विभुः ५
तेषामीश्वरतागुणैश्च जनुषा ज्यायानभूद्राघवो
 
रामः सोऽप्यथ कौशिकेन मुनिना रक्षोभयाद्याचितः ।
राजानं स यशोधनो नरपतिः प्रादात्सुतं दुःखित-
स्तस्मै सोऽपि तमन्वगादनुगतः सौमित्रिणोच्चैर्मुदा ६
 
1