This page has not been fully proofread.

हनुमन्नाटकं -
 
बिभीषणो रावणं प्रत्याह-
जातिं मानय मानुषीमभिमुखो दृष्टस्त्वया हैहयः
स्मृत्वा वालिभुजौ च सांप्रतमवज्ञातुं न ते वानराः ।
तत्पौलस्त्यमहानिहोत्रिणमहं त्वामेवमभ्यर्थये
सीतामर्पय मुञ्च च क्रतुभुजः काराकुटुम्बीकृतान् ॥९॥
त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्धनम् ।
प्रसीद जीवेम सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली ॥ १०॥
 
१००
 
[ अङ्कः-
ननु नराः वानराः किं करिष्यन्ति तत्राह-वानरमानुषीं जाति मानय वहु
जानीहि । केयं जातिरिति तत्राह-अभिमुखो हैहयोऽर्जुनः त्वयैव दृष्टः ज्ञातः
तत्कारागृहनिवासित्वात्तत्प्रसिद्धाः वानरा अवज्ञातुं तिरस्कर्तुं सांप्रतं योग्यं न ।
' योग्ये सद्योपि सांप्रतम् ' इति विश्वः । कुतः । वालिभुजौ स्मृत्वा भूक्रामणे
कक्षान्तरावस्थितत्वात्तत्तस्मादत एवं वानरा महानिहोत्रिणं त्वां रामप्रतापानी
राक्षसकुलहविष्यहोतारं प्रार्थये । किं प्रार्थयसीत्यत्राह - सीतां मुञ्च, कारागृहमेव
कुटुम्वं येषां तांस्त्वत्कारागृहनिरुद्धान्मुच सीतां समर्पयेति । अत्रेदं वृत्तम् - पुरा
रावणेन धर्म त्याजितैर्मुनिभी रुषा स्वस्वाङ्गजनितधर्मजलं कुम्भे मक्षिप्तम् । एतेन
तव नाशो भविष्यतीत्युक्त्वा कुम्भं भूमौ निधाय गताः । ततो जनकयज्ञार्थे हला-
कर्षणकाले तद्भेदादाविर्भूता सीता समुत्थिता । सा जनकजेत्युच्यते, अतो जनक-
प्रसूतामित्युक्तम् ॥ ९ ॥ १० ॥
 
.
 
रावणः सक्रोधम् -
 
जानामि सीतां जनकप्रसूतां जानामि रामं मधुसूदनं च ।
वधं च जानामि निजं दशास्यस्तथापि सीतां न समर्पयामि ११
वधं च जानामीत्यनेन मम वघोऽवश्यं भवितेति ध्वनितम् । तां तु न समर्प -
यामीत्युक्तम् । कुतो न समर्पयसीत्यत्राह-दशास्येति । दशास्यो भूत्वा एकात्याय
कथं समर्पयामीति गूढोऽभिप्रायः । अन्यत्सुगमम् ॥ ११ ॥