This page has not been fully proofread.

९८
 
हनुमन्नाटकं -
 
लिखति दशनकैरुत्पतद्भिः पतद्भि-
र्जरठ कमठभर्तुः खर्परे सर्पराजः ॥ ३ ॥
 
[ अङ्कः-
-
 
हे नृपतिमुकुटरत्न राम, सर्पराजः शेपस्त्वत्प्रयाणवर्णावली जरठकमठभर्तुः
जरठो वृद्धः प्राचीनः स चासौ कमठभर्ता महाकूर्मस्तस्य खर्परे पृष्ठकपाले दश-
नट दशना एव टंकास्तैलिखति ' स्यात्सर्परः कपालोऽखी' इत्यमरः । वानरव-
लेन निमज्जन्ती र्भूस्तस्या भारेणाकान्तो भोगो यस्य सः । कीदृशैर्दशनटकैरुत्पतद्भि-
रुत्पतत्सु वानरेपूत्पतद्भिः निपतत्सु वानरेपु खर्परे पतद्भिः ॥ ३ ॥ -
 
श्वासोर्मिप्रतिसन्धिरुन्धितगलप्रच्छिन्नहारावली
रत्नैरप्यदयालुभिः कृतफणामाग्भारभङ्गक्रमः ।
श्रोत्राकाशनिरन्तरालमिलितस्तब्धैः शिरोभिर्भुवं
पत्ते वानरवीरविक्रमभराभुनो भुजङ्गाधिपः ॥ ४ ॥
 
पुनरपि श्वासोतिपद्येन वाहिनीभरमेवानुवर्णयति --- बहुत्वाद्यच्छिरसि इयं
भूरत्यर्थ राजते स एव भुजंगाधिपः शिरोभिर्भुवं धत्ते । कीदृशः । वानरवीराणां
विक्रमेण ऋन्दनादिक्रमेण यो भरस्तेनासमन्ततो भुनो वक्रीभूतः । पुनः किंभूतः ।
कृतो विहितः फणानां प्राग्भारस्य भञ्जिकायाः भङ्गक्रमो येन । 'प्राग्भारो भञ्जिका
मेता ' इति विश्वः । कीदृशैः शिरोभिः । श्वासानां या ऊर्मयस्ताभिः संधिः
प्रतिश्वासनिर्गमनमार्गः संधिः मुखनासादिः तै रुन्धितो यो गलः कण्ठस्तस्य वायु-
रोधनस्थलत्वात्प्रच्छिन्नानि त्रुटितानि हारावल्या रत्नानि येभ्यस्तैः अत एव दया-
लुभि: मिथ: संधानपीडानभिज्ञैः । पुनः श्रोत्राणामभावान्निरन्तराल॑मन्तरालशून्यं
यथा स्यात्तथाभितः सर्वतः स्तव्धैस्तत्र नैसर्गिक सौकुमार्यैः ॥ ४ ॥
रामः अये मरुत्तनय -
 
कूर्म क्लेशयितुं दिशः स्थायितुं भेत्तुं धरित्रीधरा-
सिन्धुं धूलिभरेण कर्दमयितुं तेनैव रोद्धुं नमः ।
नासीरेषु पुरः पुरथ्वलबलालापस्य कोलाहला-
त्कर्ते वीरवरूथिनी मम परं जैत्र पुनस्त्वद्भुजैः ॥ ५ ॥