2023-03-19 23:53:22 by ambuda-bot
This page has not been fully proofread.
679
हनुमन्नाटकं -
एकैवास्ति मिथः पलायनकथा त्वद्भीतरक्षः पते--
देव श्रीरघुनाथ तस्य नगरे स्वमेऽपि नान्या कथा ॥४१॥
रामः-
त्रिदशैरपि दुर्धर्षा लंका नाम महापुरी ।
कथं वीर त्वया दग्धा विद्यमाने दशानने ॥ ४२ ॥
मिथः शृङ्गारकथा का । एवमुत्तरत्रापि ज्ञेयम् । एवंविधनिकृष्टे पूर्वोत्तरपक्षे
स्थापनात्मकं वाक्यमुक्तम् ॥ ४१ ॥ ४२ ॥
हनुमान-
निःश्वासेनैव सीताया राजन्कोपानलेन ते ।
दग्धपूर्वा तु सा लंका निमित्तमभवत्कपिः ॥ १३ ॥
शाखामृगस्य शाखायाः शाखां गन्तुं पराक्रमः ।
यत्पुनर्लंधितोम्भोधिः प्रभावोऽयं प्रभो तव ॥ ४४ ॥
पूर्व दग्धा दग्धपूर्वा कपिरहं निमित्तसेवाभवम् ॥ ४३ ॥ ४४ ॥
अन्तराले लंकायां सरमा नाम राक्षसी धर्मिणी जानकी
वाचमूचे-
बिभेमि सखि संवीक्ष्य भ्रमरीभूतकीटकम् ।
तद्ध्यानादागते पुंस्त्वे तेन सार्धं कुतो रतिः ॥४५॥
अभ्रमरो भ्रमरो भवति भ्रमरीभूतं कीटकं वीक्ष्य एवं तद्धानात्तस्य रामस्य स्मर-
णात्त्वाय पुंस्त्वमागते सति तेन रामेण सार्धं रतिः कुतः । पुंस्त्वमत्र रामत्वम् ॥४५॥
मा कुरुष्वात्र संदेहं रामे दशरथात्मजे ।
त्वद्धयानादागते स्त्रीत्वे विपरीतास्तु ते रतिः ॥ ४६ ॥
इति श्रीहनुमन्नाटके हनुमाद्विजयो नाम षष्ठोऽङ्कः ॥
अत्र रतौ । शेषं सुगमम् ॥ ४६ ॥
९६
[ अङ्क:-
-
इति श्रीमिश्रमोहनदासविरचितायां हनुमन्नाटफदीपिकायां
हनुमद्विजयोनाम षष्ठोऽङ्कः समाप्तः ॥ ६ ॥