This page has not been fully proofread.

.]
 
}
 
दीपिकाख्यव्याख्योपेत्तम् ।
 
हनूमान् सत्वरम् -
हा राम जगदानन्द किमिदं शिवमस्तु ते ।
तव प्राणगतिद्वारस्यार्गलेयं करे मम ॥ ३८ ॥
जगतामानन्दो यस्मात्किमियं विमनस्कतेति पाठः ॥ ३८ ॥
इति जानकी शिरोरत्नं रामाय प्रयच्छति ।
तथा च-
मनःशिलायास्तिलकं स्मर गण्डस्थले त्वया ।
संमृष्टं जानकीवक्षःस्पर्शात्काणीकृतं खगम् ॥ ३९ ॥
सर्व सुगमम् ॥ ३९ ॥
 
( रामोऽभिज्ञानत्रयमासाद्य ) साधु मारुते साधु ।
अये प्रियायाः कुशलमस्ति ।
 
आञ्जनेयः-
कार्य चेत्प्रतिपत्कला हिमनिधेः स्थूलाथ चेत्पाण्डिमा
नीला एव मृणालिका यदि घना बाप्पाः कियान्वारिधिः ।
संतापो यदि शीतलो हुतवहस्तस्याः कियद्वर्ण्यते
राम त्वत्स्मृतिमात्रमेव हृदये लावण्यशेषं वपुः ॥ ४० ॥
 
९५
 
हे राम, यदि तस्याः कार्य वर्ण्यते तार्ह हिमनिधेश्चन्द्रस्य प्रतिपत्कला स्थूला ।
चेत्पांण्डिमा पाण्डुता अथ पाण्डिमा वर्ण्यते चेन्मृणालिका नीला एव । यदि धना
निरन्तरा: बाप्पा वर्ण्यन्ते तार्ह वारिधिः कियान् । यद्वा वाष्पा वर्ण्यन्ते तदा घना
वर्षन्तो मेघाः तथा वारिधिरभि कियान् । अन्यद्वृत्तं कियद्वर्ण्यते हृदयं
स्वत्स्मृतिमात्रमेव । वपुर्लावण्यशेषमेव ॥ ४० ॥
 
-
 
रामः-
मारुते का कथा ।
हनूमान् भोः प्रभो -
 
का शृङ्गारकथा कुतूहलकथा गीतादिवियाकथा
मायत्कुम्भिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा ।