2023-03-19 23:53:22 by ambuda-bot
This page has not been fully proofread.
दीपिकाख्यव्याख्योपेतम् ।
ऐषीकमत्रमधिकृत्य तदा ततोऽक्ष्णा
काणीचकार करुणो रघुराजपुत्रः ॥ ३२ ॥
इति द्वितीयमभिज्ञानम् ॥
यदा चित्रकूटे यः काकः काकरूपधरश्चेन्द्रः वक्षोभिचारि यथा स्यात्तथा वक्षसि
अभिचरतीति वक्षोभिचारि देव्याः स्तनं विदद्वार तदा च रामो रघुराजपत्रः
ऐपीकं बाणमधिकृत्य तं काकमक्ष्णा नेत्रेण काणीचकारेति । किमिव । चरुभाण्ड-
मिव हविःपात्रामव ॥ ३२ ॥
९३
मनःशिलायास्तिलकं तथा मे गण्डस्थले पाणितलेन मृष्टम् ।
स्मरेति संज्ञानमपि प्रयच्छ जीवाम्यतो राघव मासमात्रम् ३३ ॥
इति तृतीयमभिज्ञानम् ॥
हे राघव, अहं त्वदागमनाथ मासमात्रं कालं जीवामीत्यपि वाच्यमिति शेषः ।
अन्यत्सुगमम् ॥ ३३ ॥
हनुमानू
-
रत्नं यत्नात्वा तद्नु कपिभटश्चित्रकूटस्य संज्ञां
नत्वा पादारविन्दद्वयमपि जनकस्यात्मजाया हनूमान् ।
पाणिभ्यामंत्रियुग्मं पुनरुदधितटे मन्त्रयित्वात्रगर्भे-
णोर्म्यामुत्पत्य मनं तदुरुभुजबलाडम्बरेणाजगाम ॥३४॥
पाणिभ्यामङ्घ्रियुग्मम् पुनः उद्धितटे मन्त्रयित्वा अभ्राणि गर्ने यस्य तेनाकाश-
मार्गेण जगामेत्यन्वयः । किं कृत्वा । ऊर्म्या समुद्रोर्मीनभिव्याप्य तन्मानं समुद्रप्रमा-
णमुत्पत्य समुद्रोमिंप्रमाणमात्रमुत्पत्येत्यर्थः । किंविशिष्टेना भ्रमार्गेण । ऊरुभुजवलस्या-
डम्बरो यस्मिन् । अन्यत्सुगमम् ॥ ३४ ॥
- ततो मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलायणीः ।
वियुक्तरामातुरदृष्टिवीक्षितः समागतः श्री हनुमान्वसन्तवत् ॥ ३५॥
अत्र हनूमद्वसन्तयोर्वर्णनम् । मरुच्चुम्बितचारुकेसरः चारुकेसरा: पुच्छलोमानि
कुसुमकोशतन्तवो वा । ताराधिपः सुग्रीवश्चन्द्रोपि वियुक्तो रामस्तस्यातुरदृष्टया
वियुक्ता वियोगिन्यो रामास्तासामप्यातुरदृष्टयेति योज्यम् ॥ ३५ ॥