2023-03-19 23:53:21 by ambuda-bot
This page has not been fully proofread.
९२
हनुमन्नाटकं -
अथाह गगनमण्डलस्थो मारुतिः-
एकोऽहं पवनात्मजो दशमुख त्वं चापि कोटीश्वर-
स्त्वां जित्वा समरे प्रभोः प्रणयिनीं सीतां च नेतुं क्षमः ।
किं तूत्थाप्य भुजं पुरा भगवता रामेण सुग्रीवतो
हत्वा दक्षिणपाणिना वसुमतीं त्वां हन्तुमुक्तं वचः ॥३०॥
[ अङ्क:-
पूर्वाधै सुगमम् । शक्तश्चेत्कथं मां न हन्याः सीतां च न नयसीत्यत्राह -- पुरा
रामेण सुग्रीवत: सुप्रीवाग्रे सुग्रीवं प्रति वा । सार्वविभक्तिकस्तसिल् । त्वां हन्तुं
वचनमुक्तं यत्तद्वचोऽनृतं स्यादतो न हन्सीति भावः ॥ ३० ॥
इत्युक्त्वा दशग्रीव नगरी भस्मसात्कृत्वा रक्षितामशोकवनि-
कामागम्य जानकीं प्रणम्य रामाभिज्ञानं याचते स्म हनुमान ।
मैथिली-
शिखां धूमशिखां शत्रोः कालव्यालवधूमिव ।
उद्यम्यास्य शिरोरत्नं संज्ञानं स्वामिने ददौ ॥ ३१ ॥
इति प्रथममभिज्ञानम् ॥
अन्यत्स्पष्टम् । रक्षितामन्निनाऽदग्धां शिखां वेणीमुद्यम्य । कीदृशीम् । धूमशिखां
धूमस्येव शिखा यस्यास्ताम् । मध्यमपदलोपी समासः । रावणदाहार्थ मलयाग्नि-
धूमशिखामिवेत्यर्थः । यद्वा धूमस्य धूमकेतोरिव शिखामिव कालसर्पस्य
स्त्रियमिव ॥ ३१ ॥
तथा च चित्रकूट पर्वते -
वक्षोभिचार चरुभाण्डमिव स्तनं यो
देव्या विदेहदुहितुर्विददार काकः ।