This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
रावणः स्वगतम्-
यद्ययं रुद्रो मारुतिस्तर्हि किमिति रुद्रभक्तस्य मे नगरी दहति
अहह ज्ञातम् !
 
तुष्टः पिनाकी दशभिः शिरोभिस्तुष्टो न चैकादशको हि रुद्रः ।
अतो हनूमान्दहतीति कोपात्पंक्तेर्हि भेदो न पुनः शिवाय ॥ २७॥
 
हि यतः पङ्क्तेर्भेद: भेदनं शिवाय मङ्गलाय न भवति । सुगमम् ॥ २७ ॥
अपि च -
 
अब्धिः किं वड़वानलेन तरणेर्बिम्बेन किं चाम्बरं
मेघः किं चपलाचयेन शशिभृत्किंभालनेत्रेण वा ।
कालः किं क्षयवाह्ननेन्द्रधनुषा धाराधरः किं महा-
न्मेरुः किं ध्रुवमण्डलेन स कपिः पुच्छेन से राजते ॥ २८ ॥
 
सः प्रसिद्धः कपिः पुच्छेन से राजते । तत्र कविप्रेक्षते केन क इव । सर्व
सुगम॑म् । पुनर्मेघग्हणं धनुरुत्प्रेक्षार्थम् । अलंकारदूषितमिदं पद्यम् । तदुक्तं दण्डिना
असंबद्धोपमं पद्यं न कुर्वीत विदूषितम्' इति ॥ २८ ॥
 
C
 
६.]
 
अथ राक्षसाः-
मरुत्पुत्रस्त्वेकः कपिकटकरक्षामणिरसौ
 
-
 
समुघलांगूलो ध्वज इव समाश्लिष्टगगनः ।
पुनः प्रत्यायास्यत्यहह कपिसैन्ये प्रचलिते
पदं प्रोचुर्नीचैर्मयचकितलङ्कापुरजनाः ॥ २९ ॥
 
19
 
• लङ्कापुरवासिनो राक्षसाः नीचैर्मन्दमन्दमिति । प्रोचुः । इतीति शेषः । इति
किम् । अहहेति कष्टम् । ततः कपिसैन्ये प्रचलति सति मरुत्पुत्रो हनूमान् पुनः
पदमस्मदीयं स्थानं लङ्कां प्रत्यायास्यति आगमिष्यति । यद्वा पदं वचनम् । कीदृशः ।
एक एवासौ कपिकटकरक्षामणिः । यद्वा एकोऽसहाय: असौ मरुत्पुत्रः पुनरायास्य
तीति योज्यम् । पुनः समुघलांगूल ऊर्ध्वगतपुच्छः । ॐ इव पुच्छः । समाहिष्टगग-
नध्वज इव ॥ २९ ॥