This page has not been fully proofread.

१०
 
[ अङ्कः-
हनुमन्नाटकं -
 
तन्मामादिश पश्य पश्य च बलं भृत्यस्य यत्कौतुकं
प्रोद्ध प्रतिनामितुं प्रचलितुं नेतुं निहन्तुं क्षमः ॥ ११ ॥
 
देवेति । पूर्वार्धे स्पष्टमेव । तत्तस्मात्कारणान्मामादिशाज्ञापय । भृत्यस्य मम
यत्कौतुकमाञ्चर्यकर्तृ वलं तत्पश्य । पश्येत्यादरे वीप्सा । किं वलमिति चेत्तत्राह--
एतद्धनुः प्रोद्धर्तु, भूमेः प्रतिनामितुं नम्रोकर्तु, प्रचलितुं कोणगुणालोकनाय चपल-
यितुं, नेतुमितो गमयितुं, निहन्तुं भग्नीकर्तु क्षमोऽस्मि । किं पुनराकर्पणमात्रमिति
भावः। 'पिनाकोऽजगवं धनुः' इत्यमरः । ममैवात्रेदृशीशक्तिः । भवन्तस्तु
ब्रह्माण्डोद्धरणसहा इति द्योतितम् ॥ ११ ॥
 
रावणपुरोहितो जनकं प्रति-
दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ
दोः क्रीड़ामशकीकृतत्रिभुवनो लंकापतिर्याचते ।
तत्किं मूढवदीक्षसे ननु कथागोष्ठीषु नः शासते
तद्वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः ॥ १२॥
पुनः रामं प्रति-
समंतादुत्ता : सुरसहचरीचामरमरु-
त्तरङ्गैरुन्मीलगुजपरिघसौरभ्यशुचिना ।
स्वयं पौलस्त्येन त्रिभुवनजिता चेतसि धृता-
मरे राम त्वं मा जनकपतिपुत्रीमुपयथाः ॥ १३ ॥
जनक:-
माहेश्वरं धनुः कुर्यादधिज्यं चेद्ददामि ताम् ।
पुरोहित:-
गुरोः शंभोर्धनुनों चेच्चूर्णतां नयति क्षणात् ॥ १४ ॥
तयोरेवं वदतोरेतदन्तरमासाद्य रावणपुरोहितो जनकमनुवदति - दातव्येति ।
भो जनक, इयं सर्वोत्तमा दुहिता कस्मैचिदयाचतेऽपि वराय दातव्यैव । असौ