This page has not been fully proofread.

९०
 
हनुमन्नाटकं -
 
[ अङ्क:-
रेरे वानर, भवान् कः ? हे रावण, अहमाहवे त्वत्सूनुहन्ता अक्षघाती । अनेन
स्वतो बलमुपदिश्य स्वामिनोप्यात्मनो वलं द्योतयति- खरखण्डनस्येत्युपलक्षणम् ।
खरदूषणत्रिशिरसां त्वद्भातृणां खण्डनस्य हन्तुः रामस्य दूतः । किंभूतस्य रामस्य ।
जगतो विश्वस्य या कोदण्डदीक्षा धनुर्विद्याशिक्षणं तस्य गुरोः शिक्षकस्य । महो-
र्दण्डाभ्यां यत्कठोरताडनं तस्य विधौ सति मयि प्रहरति सति त्रिकूटादय: के ।
नकेऽपीत्यर्थः ॥ २२ ॥
 
ईषत्सज्जनमैत्रीव नाभियत कपेस्तनुः ।
 
निहता चन्द्रहासेन रावणेनातिरंहसा ॥ २३ ॥
 
*
 
ईषदपि नोऽभिद्यत् । चन्द्रहासाख्यखड्ङ्गेन तत्राप्यतिरंहसा अतिवलेन ॥ २३ ॥
 
लांगूले चैलतैलप्लुतवहलशणैर्वेष्टिते दीप्यमानो
रक्षोभिर्वीक्षितोऽग्निर्द्विजपरुषगिरा राघवो यद्यतुष्टः ।
तुष्टो यथाज्यहोमैस्त्वमपि रघुपतेर्ययहं भक्तियुक्ता
संतप्तः प्रार्थितो मा तदिह हनुमतः सीतया शीतलोऽभूत् २४
 
खङ्गे निष्फले आत्मनः पूर्वोक्तवैदग्ध्यमाविष्कर्तुं मां दहेति शिक्षितो रावणः
दाहयति -- सीतया इति प्रार्थितोऽग्निर्हनुमतः शीतलोऽभूत् न परेषामिति । इति
किम् । भो अग्ने, यदि संतुष्ट इत्यादि तु सुगमम् । हनुमतः संतप्तो मा भवेतिशेषः ।
तत् तदा यदि तुष्टोसि । कीदृशोऽग्निः । चैलाद्दीप्यति लागूले सति दीपितः ।
सुगमम् ॥ २४ ॥
 

 
वह्निर्बभौ वानरपुच्छजन्मा स दाह्य लङ्कां खमिवोत्पतिष्णुः ।
रामादयं प्राप्य किल प्रतापः पलायमानो दशकंधरस्य ॥२५॥
वह्निर्लङ्कां विद॒ह्य वभौ । कीदृशः । खमुत्पतिष्णुः उच्चैर्गन्तुकः । क इव । स्रं
अनि पलायमानदशकंधरप्रताप इव ॥ २५ ॥
 
पलानि भुक्त्वा चपलः पलाशिनां हुताशनस्तृप्तिमुपागतः पराम् ।
विराजते स्म प्रतियातनाछलाज्जलानि चाब्धौ तृषितः पिबन्निव २६
पलाशिनां रक्षसां पलामि मांसानि । चपलः शीघ्रदाहकः प्रतियातनः प्रतिबिम्य-
स्तन्मिषेण ॥ २६ ॥