This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
दैवं प्रसन्नमिव देवि तवाद्य सत्यं
 
रक्षांसि कानि कुपितस्य सलक्ष्मणस्य ॥ २० ॥
 
ननु समुद्रान्तरितरक्षोगृहमागताहं दूरस्थो राम इति मीमांसमानां सम्बोधयति-
अर्गलानि प्राकारादीनि भिन्दतीत्यर्गलाभिदस्तेषाम् । शेपं सुगमम् ॥ २० ॥
अत्रान्तरे जानकी सप्रपश्चं पृच्छ हनुमान मातः कुत्रास्ते
राजवाटिका ?
 
दर्शयति जानकी-
रे पुत्र पश्चिम दिग्भागेनास्यास्ति वाटिका । हनूमान् उपल्लां -
गूलप्रचण्डरूपेण प्रचलित :-
Badan
 
८९
 
इत्युक्त्वा रजनीचरस्य हनुमानुद्धिय लीलावनं
वीरं तत्सुतमक्षमात्तपरिघाघातैर्जघानागतम् ।
तत्कोपारुणलोचनेन्द्रजयिना प्राङ् निष्कलत्वाद्धृतं
•ब्रह्मात्रेण चिगर्हितेन विधिना बद्धो विदग्धः कपिः ॥२१॥ .
 
उद्भिद्योत्पाट्य तत्सुतं रावणपुत्रमक्षनामानं वनभङ्ग श्रुत्वा योद्धुमागतम् । तस्मि-
न्हनुमति यः कोपस्तेनारुणे लोचने यस्य तेनेन्द्रजयिना मेघनादेन कृत्वा प्राङ्निप्फ-
लत्वाद्विगर्हितेन विधिना ब्रह्मणा हेतुभूतेन ब्रह्मणा ब्रह्मास्त्रेण ब्रह्मदत्तपाशेन बद्धः ।
अत्रेयं कथा - पूर्व ब्रह्मणा दत्तो ब्रह्मपाशः एतेन त्वं कपिं वघ्नीहीति रुद्रावतारे हनू-
मति पाशो निष्फलो जातः । ततो मेघनादेन ब्रह्मणो गर्हा कृता ततश्च ब्रह्मणा
प्रार्थितो हनूमान् स्वयं निबद्धः । विदग्धः ब्रह्मसङ्कटात्महनननिवारणविधिज्ञः ॥२१॥
रावण: तमालोक्य -
 
रेरे वानर को भवानहमरे त्वत्सुनुहन्ताहवे
दूतोऽहं खरखण्डनस्य जगतां कोदण्डदीक्षागुरोः ।
मद्दोर्दण्डकठोरताडनविधौ को वा त्रिकूटाचलः
को मेरुः क्व च रावणस्य गणना कोटिस्तु कीटायते ॥ २२ ॥