This page has not been fully proofread.

८८
 
हनुमन्नाटकं -
 
[ अङ्क:-
त्यर्थः । यद्वा अत्र भ्रमः । अत्र मणौ रामस्य प्रतिविम्बमासीत्तदस्ति नवेति परीक्षया
विलोकयन्ती स्वप्रतिबिम्वं तत्र सा दृष्टया विचिकित्सति -- मद्रप इति । रामोपि
सञ्चिन्तया मद्रूप एवाभूत् किमिति मीमांसया विचारेण मुमोह वैचित्यमाप ॥१७॥
कथंचिच्चेतनां प्राप्य -
 
अये मरुत्तनय ययंगुलीयकमेव कंकणमभूत्स्वामिनो राम-
देवस्य तर्हि किमिव तनुतां गतः ?
 
हनुमान-
स्वभावादेव तन्वङ्गि त्वद्वियोगाद्विशेषतः ।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गतः ॥ १८ ॥
 

 
हे तन्वङ्गि, स्वभावादेव तनुतां गतः त्वद्वियोगाद्विशेपत इत्यन्वयः । ' तन्वङ्गो
इति ना पाठः । तनून्यङ्गानि यस्यासौ रामः स्वभावादेव त्वद्वियोगाद्विशेषतस्तनुतां
अत इति योज्यम् । तन्वङ्गी इन्नन्तः ॥ १८ ॥
 
जानकी-
चन्द्रो यत्र दिनेशदीधितिसमः पद्मं स्फुलिंगोपमं
 
कर्पूरः कुलिशोपमः शशिकला शम्पासमा भासते ।
वायुवड व वह्निवन्मलयजो दावाग्निवत्सांप्रतं
 
संदर्श नय रामसंनिधिमितो यात्रां द्रुतं कारय ॥ १९ ॥
चन्द्रेति । शम्पा विद्युत् । कारयेति स्वार्थे णिच । कुर्वित्यर्थः । तन्त्र गत्वा यात्रां
रामप्रस्थानं कारयेत्यर्थः ॥ १९ ॥
 
हनुमान-
किं दूरमिन्दुमुखि रामशिलीमुखानां
किं दुर्गमर्गलभिदां हरियूथपानाम् ।