This page has not been fully proofread.

६.]
 
दीपिकाख्यव्याख्योपेतम्
 

 
हनुमान विरलगलदश्रुपूर्णलोचनाभ्यां सौवर्णमंगुलीयकं
मन्यमानां जानकी संभावयामास । हे भामिनि-
सुवर्णस्य सुवर्णस्य सुवर्णस्य च मैथिलि ।
प्रेषितं रामचन्द्रेण सुवर्णस्यांगुलीयकम् ॥ १५ ॥
 
हे भामिनि भ्रमवति, ' भामोरित भ्रमकोपयोः' इति चरकः । इदं सुवर्णस्य
हेन: अंगुलीयकं रामेण तव तुभ्यं प्रेरितं प्रस्थापितम् । किंभूतस्य सुवर्णस्य । शो-
भनपीतरक्तरङ्गवतः । पुनः किंभूतस्य सुवर्णस्य । शोभनरामनामाक्षरवतः । पुनः
सुवर्णस्य दशमापमात्रस्य ' सुवर्ण दशमापकम् ' इति ॥ १५ ॥
 
जानकी आशालेशमासाद्य क्षणमणि प्रमृज्य -
मुद्रिकाव्याजेन मारुतिं प्रति-
मुद्रे सन्ति सलक्ष्मणाः कुशलिनः श्रीरामपादाः सुखं
सन्ति स्वामिनि मा विधेहि विधुरं चेतोऽनया चिन्तया ।
एनां व्याहर मैथिलाधिपसुते नामान्तरेणाधुना
रामस्त्वविरहेण कङ्कणपदं ह्यस्यै चिरं दत्तवान् ॥ १६ ॥
 
मुद्रेति । परपुरुषसम्भापणात्पातिव्रत्यभङ्गभयान्मुद्रिकामुपन्यस्य पृच्छति-मुद्रेति ।
रामः अस्यै मुद्रायै चिरं त्वद्विरहेण कङ्कणपदं कङ्कणस्थानं दत्तवान् । एतेन व्याधिर्द-
शितः । उक्तंचरसोदधौ – 'व्याधिः स्मरवेदनया समुत्यसन्तापदोपकृतः । ऋशिमा '
इति । सुगमम् ॥ १६ ॥
 
अत्रांगुलीयकमणौ प्रतिबिम्बमासी-
द्रामस्य सादरमतीव विलोकयन्ती ।
मद्रूप एव किमभून्मम वीक्षयेति
मीमांसया जनकराजसुता मुमोह ॥ १७ ॥
 
अत्र अंगुलीयकमणौ सादरं यथा स्यात्तथा अतीव । रामस्येति कर्मणि षष्ठी
रामं रामनामाक्षरं विलोकयन्ती सीता प्रतिविम्वं आसीत् । मणौ प्रतिविम्बिता बभूवे