This page has not been fully proofread.

८६
 
हनुमन्नाटकं -
 
[ अङ्कः-
अंगुल्या चरणांगुल्या तदग्रं तच्छिखरामं स्पृट्वा भुजरयपवनेनापूरिता आशा येनैवं
यथा स्यात्तथां जगाम । कीदृशो मैनाकः । जलनिधिना सपदि हर्षान्मत्कर्तृसगर-
गोत्रापत्य रामसहायकृदयमिति प्रीत्या प्रेरितः । ननु कुतस्तत्र गिरिरित्यपेक्षाया-
माह कीशो गिरिः । विश्रान्तः पक्षच्छिदो गोत्रभिद: भयान्निलीय स्थितः । अन्य-
सुगमम् ॥ ११ ॥ :-
वेलातटे शालतमालमालां विलोकमानः सहसाञ्जनेयः ।
 
उल्लोलयन्वालधिवाल्टिमुचैः
 
कल्लोलिनीवल्लभमुल्ललंघे ॥ १२ ॥
 
आञ्जनयोऽश्वनीपुत्रः हनूमान्सहसानायासेन कल्लोलिनीवल्लभं समुद्रमुल्ललंघे लंघि-
तवान् । वालधिः पुच्छं तदेव वल्ली तामुल्लोलयन्नुञ्चैश्चालयन् ॥ १२ ॥
 
अथ दशरथसूनोराज्ञया वायुपुत्रो
रजनिचरपुरीमालोक्य भूत्वा द्विदंशः ।
अकलितपरिमाणो मात्रया सत्रपस्तां
 
क्षिपति जनकजाये शिंशपायावतीर्णः ॥ १३ ॥
 

 
अल्पो भूत्वा लङ्कां प्रविशेति रामाज्ञया द्विदंशप्रमाणदेहः 'द्विदंशो वनमक्षिका
इति विश्वः । मात्रया परिमितदेहेन शिंशुपायादशोकायादवतीर्ण: 'समौ स्तः शिशु-
पाशोकौ ' इति निघण्टुः ॥ १३ ॥
 
जानकीं नमस्कृत्य मारुतिः -
 
मातर्जानकि को भवानिह मृगः, केनात्र संप्रेषित -
स्त्वद्दौत्येन रघूत्तमेन किमिदं हस्तेऽस्ति तन्मुद्रिका ।
दत्ता तेन तवैव तां निजकरादालभ्य चालिंग्य च
प्रेम्णा श्रणि समर्ज सम्यगुदभूगात्रेषु रोमोद्गमः ॥ १४ ॥
 
मुद्रादानप्रकारमाह-अत्राप्युक्तिप्रत्युक्ति: । हनूमान् मातः जानकि । सीता०भवान्
कः ? हनू० मृगः वानरः । सीता० अत्र केन संप्रेषितोसि ? हनूं ० रघूत्तमेन त्वद्दौत्येन
त्वद्दौत्यनिमित्तम् । सीता० इदं हस्ते किम् ? हनुमान् तन्मुद्रिका सीते तेन तुभ्यं
दत्ता तवैव दत्तेति परस्परमुक्त्वा सीता तां मुद्रिकां निजकरादालभ्य गृहीत्वा आलिं- '
ग्य स्वहृदये विन्यस्य प्रेम्णाश्रण ससर्ज । सम्यक् स्पष्टं यथा स्यात्तथा गात्रेषु
रोमोद्गमोऽभूदिति ॥ १४ ॥