2023-03-19 23:53:20 by ambuda-bot
This page has not been fully proofread.
६. ]
दीपिकाख्यव्याख्योपेतम् ।
८५
उद्यांगूलेति । अथ दुरतिक्रमणविचार नन्तरंस हनुमा जलनिधिं लंघयितुं जांघि-
कत्वमङ्गीचकारेत्यन्वयः । 'जंघालोतिजवो जंघाकारिको जांघिको जवी ' इति
चरकः । कः किमिव । खगपतिर्गरुडः चण्डोडीनमिव । कीदृशं जलनिधिम् । विल-
सिताम्भस्तम्भितः नेत्रप्रकाशो येन तं जलचराणां मत्स्यादीनां खरा तीक्ष्णा निर-
न्तरा या लेखा क्रीडनं तत्र ये आस्फाला उत्पातास्तैर्वाचालिता मुखरीकृता आशा
दिशो येन तम् ॥ ९ ॥
लांगूलोत्तालकेतुर्नभसि पृथुगतिः स्फारसीमन्तिताः
स्फूर्जप्रौढोरुवेगोल्ललितजलनिधिः
दूरात्सिन्दूरपूरारुणमरुणरुचिस्तेजसः संविभाग-
पृष्ठकृष्टोग्रसत्त्वः ।
चक्रे दिग्वारणानां कटितटमभितः सूर्यविदाम्बुदाभम् ॥१०॥
हनुमानिति शेपः । सिन्दूरपूरारुणं दिग्वारणानां कटितटमभितः सर्वतस्तेजसः
सम्बिभागे: स्वागदीप्तिसञ्चारणैः सूर्यविद्धाम्बुदाभं सूर्येण विद्धस्यालिङ्गितस्याम्बुद-
स्येवामा यस्य तादृशं चक्रे । यथा लग्नरविकरा मेघा दृश्यन्ते तथा दूरादेव लग्ना-
इन्दीप्तय: दिग्वारणा अभवन्नित्यर्थः । सूर्यसादृश्ये हेतुमाह -अरुणरुचिः वानर-
जातित्वात् । यद्वा समुद्रोल्लंघनाविष्कृतरोपावेशाच अरुणा रुचिर्यस्य । रोपमेव
द्योतयति-लांगूलमेवोत्तालः केतुर्यस्य नभसि या पृथुगतिः शीघ्रगमनं तदर्थं यः
स्फार उत्पतनं तेन सीमन्तितानि द्विधाभूतानि अभ्राणि येन 'अभ्रं मेघो वारिवाह-
स्तनयित्नुर्वलाहकः ' 'इत्यमरः । स्फूर्जत् निर्गच्छत् यः प्रौढोऽतिबहुः ऊरुवेगः जंघा-
जवस्तेन उल्ललितः जलनिधिर्येन सः पृष्ठेनाकृष्टानि उग्राणि राक्षसादीनि सत्त्वानि
येन सः । समुद्रलंघने राक्षसयुद्धं प्रसिद्धम् ॥ १० ॥
तत्रावसरे समुद्रादुत्थितो मैनाक:-
विश्रान्तस्तत्र हर्षात्सपदि जलधिना प्रेरितो रत्ननाभो
मैनाकः काञ्चनामस्तुहिनगिरिसुतः प्राह दूरागतस्त्वम् ।
हो दूराध्वखेदं जहि मम शिखरे प्राप्य तस्येति वाच
स्पृष्टांगुल्या तद्ग्रं भुजरयपवनापूरिताशं जगाम ॥ ११ ॥
सैनाको गिरिः कपि प्राह - हंही सम्वोधनेऽव्ययम् । हे हनुमन् त्वं दूरादागतः
अतो मम शिखरे दूराध्वखेदं जहीत्यन्वयः । तस्य गिरेरिति वाचं प्राप्य श्रुत्वा