This page has not been fully proofread.

[ अङ्क:-
हनुमन्नाटकं -
रामः सत्वरं करमुद्रां समुद्धृत्य, वीरमारुते -
मुद्रां समुद्रमुल्लंघ्य शीघ्रमाश्वास्य जानकीम् ।
विन्यस्य पुरतस्तस्या आगच्छ मयि जीवति ॥ ७ ॥
 
समः शीघ्रं रावणं हत्वा नेष्यतीति वचसाश्वास्य तस्याः पुरतो मुद्रां विन्यस्य
मयि जीवतीति ॥ ७॥
 
८४
 
इनूमांस्तथेति श्रीरामसुग्रीवौ प्रणम्य समादाय मुद्रां
समुद्रोपकण्ठं पीठावतारमासाद्य सद्योऽचिन्तयत्-
एते ते दुरतिक्रमा: क्रममिलढर्णोर्मिमर्मच्छिदः
कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिलां: ।
गाढाम्रेडनरूढनीरदघटासंघट्टनीलीभव-
द्वयोमास्फोटकटाहनिर्झरपयोवेणीकणग्राहिणः ॥ ८ ॥ -
 
एते झञ्झानिला झञ्झानामानो वायवः कदम्बसम्बन्धिना रजोभरेण ककुभो
रुन्धन्त्याच्छादयन्ति । किंभूताः । दुरतिक्रमांः दुर्लघ्याश्च ते क्रमेणैव मिलन्त एकी-
भवन्तःच ते घूर्णोर्मयश्च घूर्णायमाणतरङ्गास्तैरेव लोकानां मर्माणि छिन्दन्ति इति ।
पुनः कीदृशाः गाढाम्रेडने वातातिशयमेलनेन रूढा प्रवृद्धा या नीरद्घटा तस्याः
संघट्टनेन संयोगेन नीलीभवत् श्यामीभूतं यद्वयोम तस्मिन्स्फोटनं तद्युक्तश्चासौ कटा-
हश्च कटाहो ब्रह्माण्डकटाहस्तस्माद्यान्नर्झरत्पयः गङ्गा तस्या या वेणी प्रवाहस्तस्माद-
म्बुकणान् ग्रहीतुं शीलं येषां ते 'आम्रेडनोक्तियोगोऽस्त्री ' इति विश्वः ॥ ८ ॥
धैर्यमवलम्ब्योधलांगूलास्फालकेलिव्याकुली-
कृताम्बर चरः सज्जो बभूव -
अथ सविलसदम्भः स्तम्भिताक्षिप्रकाशं
जलचरखललेखास्फालवाचालिताशम् ।
जलनिधिमधिवीरोल्लंघितुं जांधिकत्वं
खगपतिरिव चण्डोड्डीनमङ्गीचकार ॥ ९ ॥
 
(