2023-03-19 23:53:20 by ambuda-bot
This page has not been fully proofread.
६. ]
दीपिकाख्यव्याख्योपेतम् ।
हेलोत्पाटितविन्ध्य मन्दरगिरिः स्वर्णत्रिनेत्राचल-
क्षेपक्षुण्णविवर्तमानसलिलं बध्नामि वारांनिधिम् ॥ ४॥
मूलस्थानीयं जम्बूद्वीपं सागरान्तर्वर्तिदेशम् । इतः सकाशात् तत्रैव लङ्कासमीप
एव आनये प्रापयामि । लङ्कापि जम्बूद्वीपान्तराल एवेत्युक्तार्थे वैपदम् । एवं व्या-
क्रियते जम्बुयुक्तो द्वीपः । मध्यमपदलोपी समासः । द्वीपशब्देन लक्षणा 'शेपो
जम्बूध्वजो द्वीपो परो व्ययखराडिति तन्त्रे जम्बूद्वीपलक्षणं शेषत्वात्स्वर्णाचलो
मेरुः । त्रिनेत्राचलः कैलासः विन्ध्यादीनां क्षेपेण प्रक्षेपणेन क्षुण्णं खण्डितं विवर्त-
मानं प्रत्यागतं अवरुन्धमानं सलिलं यस्य तं बघ्रामि पर्वतैरेव स्थलीकरोमिं ॥ ४ ॥
८३
अपि च -
देवाज्ञां देहि राज्ञां त्वमसि कुलगुरुः शोषये किं पयोधिं
किं वा लंकां सलंकाधिपतिमुपये जानकी मानकीर्णाम् ।
सेतुं बध्नामि मत्तः स्फुटितगिरितटीभूतभङ्गातरङ्गा-
दुद्भ्राम्यन्त्रक्रचक्रोऽपि च मकरकुलग्राहचीत्कारघोरम् ॥ ५॥
इत्युक्तेऽपि किं कारयामि इति विचिकित्समानः पुनरात्मबलमुक्तार्थानुवादेनैव
स्मारयति - देवाज्ञामिति द्वाभ्याम् । अलङ्कां लव नास्तीत्येवं चूर्णीकरोमीति शेपः ।
अथवा मानकीर्णा पातिव्रत्योन्नतिमतीं जानकीमुपनये सेतुं बध्नामि । किंभूतं सेतुम् ।
मत्तः सकाशात्स्फुटिता ये गिरयस्तेपां तटीभिर्भूतानां भङ्गो यत्र तस्मात्तरङ्गादुचैत्र-
मन्तो ये नॠास्तेपां चक्राणां समूहानां क्रमादुत्फाला मकरग्रहमाहचीत्कारैश्च घोरं
' नका: सपक्षजातीया मकराः स्युचतुष्पदाः । एतद्गिला ग्रहा ग्राहास्तद्गिलाः समु-
दोरिता: ' इति वैद्यके । यद्वा किंविशिष्टात् मत्तः । स्फुटिता ये गिरयस्तेषां तटी-
भिर्ये भूतभङ्गाः प्राणिनाशास्तैरात्तः स्वीकृतो रङ्गो येन तस्मात् ॥ ५ ॥
किं प्राकारविहारतोरणवत लंकामिहैवानये
किं वा सैन्य समुद्धृतं च सकलं तत्रैव संपादये ।
हेलान्दोलितपर्वतोच्चशिखरैर्वघ्नामि वारांनिधिं
देवाज्ञापय किं करोनि सकलं दोर्दण्डसाध्यं मम ॥ ६ ॥
सैन्येन सह समुद्भूतं तत्रैव लङ्कायां सैन्येन सह सम्यगुद्धतं सर्व सम्पादये व्या
पादये । हन्मि सकलं पर्वतादिकम् । सुगमम् ॥ ६ ॥