This page has not been fully proofread.

८२
 
हनुमन्नाटकं -
 
[ अङ्क:-
षष्ठोऽङ्कः ।
 
CON
 
रामः वानरभटानाचष्टे । भो भो सुग्रीवसैनिकाः शृणुत-
व्यसने महति प्राप्ते स्थिरैः स्थातुं न युज्यते ।
लंकां निःशंकमालोक्य क इहागन्तुमर्हति ॥ १ ॥
हनूमान् ( सहर्षं दोस्तम्भास्फालन के लिमभिनीय निज-
प्रचण्डदोर्दण्डयोमहतीं प्रौढिं नाटयति । देव पश्य - )
अष्टांगुलमयः कायः पुच्छो मे द्वादशांगुलः ।
बाहू मे पश्य भो नाथ कथं रत्नाकरं तरेः ॥ २ ॥
स्थिरैयोगिभिरपि किमुत गृहिभिः । भवतां मध्ये कः आगन्तुमर्हतीति ॥१॥२॥
रामचन्द्रः सविस्मयो बभूव-
ततो जाम्बवान् । देव रुद्रावतारोऽयं मारुतिः रुद्रस्तुतिः
क्रियताम् । रामचन्द्रो रुद्रस्तुतिं कृत्वा भो भो मारुते,
त्वया विहीनः कः कर्तुं समर्थोऽस्ति । तत्र हनूमान्महा-
वीराद्भुतपराक्रमः । सहर्षे वाक्यम् । देवाकर्णय-
कूर्मो मूलवदालवालवदप नाथो लतावद्दिशो
मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः ।
स्वामिन्व्योमतरुर्मम ऋमतले श्रुत्वेति गां मारुतेः
सीतान्वेषणमादिशन्दिशतु वो रामः सहर्षः श्रियम् ॥ ३ ॥
हे स्वामिन्प्रभो, अयं व्योमतरुराकाशमेव वृक्षा मम ऋमतलेऽस्ति पाविन्यासो-
त्यापनात्रीचैरस्ति । तमेव वृक्षरूपत्वेन निरूपयति । कूर्मो मूलवदिति ॥ ३ ॥
 
"
 
देवाज्ञापय किं करोमि सहसा लंकामिहैवान ये
जम्बूद्दी मितो नये किमथवा वारांनिधिं शोषये ।