2023-03-19 23:53:20 by ambuda-bot
This page has not been fully proofread.
५. ]
दीपिकाख्यव्याख्योपेतम् ।
आदौ राज्ये किष्किन्धाद्री सुग्रीवं वानरराज्ये शङ्कां समुद्र तीर्त्वा कथं स्यामिदि
भयं त्यक्त्वा लङ्कां प्रतस्थे । तदनु प्रस्थानघोपानन्तरं मन्त्रिभिः कपिभटैर्वर्याकालं
गमयितुं संमतः अभूत् । वर्षाकालं गमयित्वा यास्याम इति निश्चितवान् । एतेन
नीतिशास्त्र पराणां प्राधान्यं दर्शितम् ॥ ६० ॥ ६१ ॥ ६२ ॥
रामस्तत्र जनकतनयाकमनीयतामनुस्मृत्य-
इन्दुर्लिप्त इवाअनेन गलिता दृष्टिभृंगीणामिव
प्रम्लानारुणमेव विद्रुमदलं श्यामेव हेमप्रभा ।
पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं
सीतायाः पुरतस्तु हन्त शिखिनां बर्हाः सगर्हा इव ॥६३॥
प्रकपण म्लान: अरुणः शोणिमा यस्मिंस्तं कलयापि सीतास्वरलेशेनापि । अत्र
सर्वमङ्गसादृश्यम् । एतेन गुणकीर्तनावस्थोक्ता । सोक्ता रसोदधौ-' वैरहकान्ता-
विपयकप्रशंसनं स्यात् गुणाख्यानम् ' इति ॥ ६३ ॥
रामः कादम्बिनीताण्डवाडम्बरं विलोक्य -
यत्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता-
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ ६४ ॥
इति श्रीहनुमन्नाटके वालिवधो नाम पञ्चमोऽङ्कः ॥ ५ ॥
यदिन्दीवरं त्वन्नेत्रसमानकान्ति तदपि सलिले मनम् । यः तव मुखच्छायानु-
कारी सोऽपि शशी मेघैरन्तरितः । राजहंसा अपि गताः वर्षाकाले कमलाभावात्
अन्यत्सुगमम् । प्रलापावस्थेयं सोक्ता रसोदधौ - ' कान्ताश्रितकालात्ययव्यवहारः
स्यात् प्रलापोयम् । ' इति ॥ ६४ ॥
६
PARTL
इति श्री मिश्रमोहनदासविरचितायां हनुमन्नाट कटीकायां
वालिवधो नाम पञ्चमोऽङ्कः ॥ ५ ॥