This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 

 
१.]
'धनुरधिज्यमधिकृतगुणं कथं विधीयताम् । अतस्तातस्य पितुः पणः 'कोऽपि
'धनुरधिज्यं करिष्यति तस्मै सीतां दास्यामि' इत्येवरूपा प्रतिज्ञा स्तवाय स्तुत्यै
दारुणोऽयोग्यः अस्तुत्य इति । यद्वा अविसर्गपाठे हे तात, तव पणो दारुण इति
·मानसोक्तिः । तातपणश्चेन्ना भविष्यत्तहं राममन्त्रिप्यामीति भावः । 'स्तवः स्तोत्रं
स्तुतिर्नुति: ' इत्यमरः ॥ ९ ॥
 
रामो लक्ष्मणं प्रति --
 
आद्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः
: कन्यायाः कलधौतकोमलरुचेः कीर्तेश्च लाभः परः ।
नाकष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः
केनापीदमहो महद्धनुरिदं निर्वीरमुर्वीतलम् ॥ १० ॥
 
अथ रामः सीतासंशयमवधार्यात्मशक्तिं ज्ञापयितुं लक्ष्मणमनुवदति- आद्वीपा-
दिति । भो लक्ष्मण, अभी नृपतय आद्वीपात्समभ्यागताः । द्विर्गता आपो यस्मि-
निति द्वीपं सागरान्तर्वर्ती देशः । तमतिव्याप्य परतो लङ्कादेरपि । यद्वा द्वीपो
जम्बूद्वीपस्तमभिव्याप्य परतो द्वीपान्तरादपि तत्रापि सर्वे, न तु केचन, तेषां मध्ये
केनापि इदं महद्धनुर्महतो रुद्रस्य धनुः । यद्वा महञ्चेदं धनुश्च नाकृष्टम् । नन्वाकर्षणं
तिष्ठतु, न टङ्कितं टकारवन्न कृतम् । एतदपि तिष्ठतु, न नमितमपि । स्थानतोऽपि
नोत्थापितम् । अहो महदाश्चर्यमिदमुर्वीतलं निर्वीरं वीर एवात्र कोऽपि नास्ति ।
यहा इदं धनुनिवर निर्गताः पराजिता मानभङ्गात्पलायिता वा वीरा यस्मात्तदिति
वाक्यान्तरेणेदंशब्दस्य पुनरुक्तिः । उर्वीतलमिति सप्तम्यर्थे प्रथमान्तपदमार्पम् ।
नन्वेतदाकर्पणादौ को लाभ इति चेत्तत्राह-कलधौतस्य दाहोत्तीर्णहेन इव कोमला
रुचिर्यस्या एवंभूतायाः कन्याया लाभः । 'कलधौतं तप्तहेम स्यात्' इति धरणिः ।
'कन्येयं. कलधौतकोमलरुचिः कीर्तेश्च लाभोऽपरः इति पाठेऽप्ययमेवार्थः ।
इयं कन्या सीता तल्लाभः इति सीतायाः पित्राद्यधीनतया कन्यात्वम् ॥ १० ॥
 
लक्ष्मणो रामहृदयानन्दकंदाङ्करोद्भवाय निजप्रचण्ड-
दोर्दण्डयोर्महतीं प्रौढ़ नाटयति--
देव श्रीरघुनाथ कि बहुतया दासोऽस्मि ते लक्ष्मणो
मेर्वादीनपि भूधरान गणये जीर्ण: पिनाकः कियान् ।
 
-