This page has not been fully proofread.

८०
 
[ अङ्कः-
हनुमान्नाटक-
सौख्यार्थिनं निरपराधिनमाहनिष्य-
स्यस्मात्पुनर्जनकजाविरहोऽस्तु मा मे ॥ ५७ ॥
पौरन्दरि:-
तथेत्युक्त्वा पुनः स्वर्ग्या गतिस्ते न भविष्यति ।
यावत्त्वां न हनिष्यामि स्थास्यसि त्वं यमालये ॥ ५८ ॥
इति प्राणान्मुमोच ।
 
हनूमान् स्वगतम्-
दासैरहो रघुपतिः परिभूयते किं
वैवस्वतादिभिरुवास तदालयेपि ।
यो देववाक्यमनतिक्रमयन्कियन्तं
कालं निहत्य पुरुहूतसुतं तु देवः ॥ ५९ ॥
 
हे पुरन्दरनन्दन वेत् यदि त्वं मां आहनिष्यसि तदा मम शुद्धिः मनःप्रसत्ति-
र्भविष्यति । अस्मात्त्वद्धननापराधात् पुनर्जनकजाविरहो मास्तु । शयानं अन्तर्निष्ठ-
त्वान्मीलिताक्षम् ॥ ५७ ॥ ५८ ॥ ५९ ॥
 
रामः कथंचिद्विषादं परित्यज्य पौरुषमवलम्ब्य-
राज्ये सुग्रीवमादौ सदयितमभिषिच्याङ्गन्दं यौवराज्ये
रामः सेनाधिपत्ये सपवनतनयान्वानरेन्द्रान्प्रतस्थे ।
लंकां संत्यज्य शंकां तदनु कपिभटैर्माल्यवत्युत्तमाद्रौ
वर्षाकालं गमयितुमचिरान्मन्त्रिभिः संमतोऽभूत् ॥६० ॥
रामात्परः शूरतरो न कश्चित्पराभवः स्त्रीहरणान्न चान्यः ।
तथापि नाब्धि प्रविवेश रामो बबन्ध सेतुं विजयासहिष्णुः ६१
अपि च-
रामाइलीयान्न परोऽत्र कश्विद्दारा पहारान्न परोऽभिमानः ।
तथापि रामः शरदं प्रतीक्ष्य बद्धाम्बुधौ सेतुमारं जगाम ॥६२ ॥