This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
रामः सकरुणं सविषादं च -
 
वत्स सौमित्रे गिरिगह्वरेषु स्वयोनिविहितं महत्सुखमनुभवन्तं
महावीरं अनपराधिनं वालिनं हत्वा मन्दभाग्यः कथमहं
जानकी सुखमनुभविष्यामीति शिरो धुन्वन्पौरन्दरिं व्याजहार-
शस्त्रौघप्रसरेण रावणिरसौ यो दुर्यशोभागिनं
चक्रे गौतमशापयन्त्रित
भुजस्थेमानमाखण्डलम् ।
कक्षागतकुलीरतां गमयता वीर त्वया रावणं
तत्संमृष्टमहो विशल्यकरणो जागर्ति सत्पुत्रता ॥ ५५ ॥
वाली प्राणांस्त्यक्तुमिच्छन्-
सुग्रीवोऽपि क्षमः कर्तुं यत्कार्यं तव राघव ।
किमहं न क्षमः कस्मादपराधं विना हतः ॥ ५६ ॥
 
भोः कपे, यः रावणापत्यं मेघनादः शस्त्रौघप्रसारेण शस्त्रत्राताडम्वरेण आखण्ड
लमिन्द्रं दुर्यशोभागिनं चक्रे । रावणिना शक्रो जित इति दुर्यशः । हे वीर, तत्
इन्द्रगतं दुर्यशो त्वया संमृष्टं उज्ज्वलीकृतम् । दूरीकृतमिति भावः । कथं दूरीकृत-
मित्यपेक्षायामाह-किंभूतेन त्वया । रावणं मेघनादपितरं कक्षैव गर्तस्तत्र कुलीरतां
कर्कटतां गमयता की शमिन्द्रम् । गौतमशापेन यन्त्रितः बद्धः भुजस्थेमा भुजवलं
यस्य तम् । ' प्राणस्थेमातरः ( ? ) पराक्रमद्युम्नानि शौर्यौजसी ' इति हैमः । ननु
तातदुर्यशः संमृष्टं मम तु रावणहननरूपं शल्यमस्त्येवेति चेन्न । असौ सत्पुत्रभाव -
वानङ्गदः जागर्ति जीवत्येव । कीदृशी । विशल्यं कर्तुं शीलं यस्याः । सा । अय-
मङ्गदो रावणं मत्सहायतया हनिष्यति । एतेन त्वं विशल्यो भवेति भावः । रावण-
पुत्रेण त्वत्पितेन्द्रो बद्धः इन्द्रपुत्रेण त्वया रावणो बद्ध: । एतेन सादृश्यं जातं परन्तु
त्वत्सुतेन रावणहननात्तवातिशय इति भावः ॥ ५५ ॥ ५६ ॥
 
4.]
 
रामः सवाष्पम्-
शुद्धिर्भविष्यति पुरन्दरनन्दन त्वं
मामेव चेदहह पातकिनं शयानम् ।
 
१७९