This page has not been fully proofread.

७८
 
हनुमन्नाटकं -
 
[ अङ्क:-
चण्डदोर्दण्डकाण्ड -
 
प्रोलांगूलवल्लीशिखरकवलितं
भ्रान्तामूलाग्रशैलप्रहरणनिपुणः केन योद्धव्य एषः ॥ ५२ ॥
 
हे वत्स, एषः वाली केनायुधेन योद्धव्यः ? यद्वा केन वीरेण योद्धव्यः ? न
केनापति ध्वनिः । एषः कः । वानरपंक्तीनां वहलो यः कलकलः शब्दः तेन चाहूतो
देवेन्द्रस्तस्य वज्रमाकृष्य आदाय योद्धं वाञ्छति । शिवशिवेति खेदे । कीदृगयम् ।
तुमुलोन्यैरलक्ष्यः उत्कालः कदनं तेन सञ्चालितोऽर्को येन । किंभूतं वज्रम् । प्रक-
र्घेणोद्यन्ती या लांगूलवल्ली तस्याः शिखरेणाग्रभागेन कवलितं गृहीतम् । किंभूतो
वाली । चण्डः अजेयः दोर्दण्डो भुजदण्डस्तस्मिन्यः कोदण्डो बाणः तेन भ्रान्तो
गर्वितः दोर्डण्डस्थवाणेन जातगर्व इति । ' गर्वसंशययोर्भ्रमः' इति विश्वः । मूलं
चाम्रं शिखरं च मूलाग्रे ताभ्यां युतः शैलः मूलाग्रशैलस्तेन यत्प्रहरणं तन्त्र निपुणः ॥
सावष्टम्भं नारायणं बाणमादाय -
वेदोद्भवैर्द्विजगणेन पुराभिषिक्तो
मूर्ध्ना समं त्वमपि बाणगुणेन मन्त्रैः ।
तत्तेजसा परवधूजनहारिणस्त्वं
 
प्राणान्गृहाण समरेष्वतिदारुणस्य ॥ ५३ ॥
 
हे बाण, पुरा द्विजगणेन वेदोद्भवैर्मन्त्रैः गुणेन समं त्वं मूर्धाभिषिक्तोऽसि ।
अतस्तत्तेजसा तेषां मन्त्राणां तेजसा । सुगमम् ॥ ५३ ॥
 
-
 
रामबाणः - पौरन्दरिश्च ब्रह्मतेजोभिगम्य परदारापहरण-
पराभवं च-
अथ रघुपतिबाणः प्राप्तवरिप्रमाणः
प्रलयदहनरोचिः कोटिविद्युन्मरीचिः ।
अकृत हृदयभेदं वालिनः सोऽप्यरोदी-
दनिहतपितृशत्रुः किं सशल्यो हतोऽस्मि ॥ ५४ ॥
अथेति । प्राप्तवीरस्य वालिनः प्रकर्पेण मानमियत्ता येन सः । न निहतः पितु-
रिन्द्रस्य शत्रुः रावणो येन सः अत एव सशल्यो रावगहननमव शल्यम् ॥ ५४ ॥