This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
पौरंदरिः सकोधम् -
श्रुत्वा हतान्समरमूर्धनि सप्त ताला-
त्रामेण पापहृदयेन विनापराधम् ।
कोपानलज्वलितहत्कमलोग्य बाली
रङ्गावतारमगमगिरिचत्वरेषु ॥ ५० ॥
विनापराधं हननमेव पापं तयुक्तहृदयेन परकान्तापहरणत्वं वानराणामभेदत्वात्।
यद्वा ' पापोऽस्त्री क्रोधपयो: ' इति विश्वात्क्रोधयुक्तहृदयेनेत्यर्थः ॥ ५० ॥
 
तारा सहर्षम् -
 
अवश्यं भगवतः श्रीपुरुषोत्तमस्य रामचन्द्रस्य प्रसादादय
चिरविरहिणः प्राणवल्लभस्य सुग्रीवस्य वक्षःपीठे लुठि-
प्यामीति मन्यमाना गिरिवरशिखरमारुह्य रामपौरन्दरि-
समरमाकांक्षती चिन्तयामास-
५.]
 
तारा संत्यक्तहारा गिरिशिखरचरा स्रस्तधम्मिल्लभारा
शोकाब्धिप्राप्तपारार्पित मदनशरा वीरसुग्रीवदाराः ।
नारा नाराचधारा निजरमणरता तापिनः पापिनोऽस्य
प्राणाञ्छाणावतीर्णा हरतु कलिकलाशालिनो बालिनोऽद्य ५१
तारेति । चिन्तयामासेति पूर्वेणान्वयः । इति किम् । अस्य वालिनः प्राणान्
हरतु । कलिकला कलेरंशः पापं तेन राजमानस्य । किलेति पाठे वानरजात्यनुकरणं
किलकिलशब्दः । कीदृशी तारा । स्रस्तः धम्मिलः केशबन्धनं यस्याः । नरो रामस्त-
स्यैषा नारा रामस्य बाणधारेत्यर्थः ॥ ५१ ॥
 
-
 
रामः सक्षोभं पौरन्दरिं गिरिगरिमगम्भीरमहिमानमव-
लोक्य सौमित्रिमित्रमनुस्मृत्याब्रवीत् वत्स-
किं वाली वानराली वहलकलकलाहूतदेवेन्द्रवज्रं
वाञ्छत्याकृष्य योद्धुं शिवशिव तुमुलोत्कालसंचालितार्कः ।