This page has not been fully proofread.

७६
 
हनुमन्नाटकं -
 
भयं स॒ता॑ दे॒हं त्यक्त्वाऽसतां देहं निर्जगामेति । अतः परदारहरणत्वाद्वालिनस्तत्र
अयमिति भावः ॥ ४६॥
 
रामः करेण बाणमालभ्य-
भावोऽस्ति चेत्कुशिकनन्दनपादयोर्मे
यद्यस्म्यहं द्विज तिरस्कृतिरोषहीनः ।
 
नान्यांगनासु च मनः शर सप्त ताला-
न्भित्त्वा तदा प्रविश भूतलमप्यगाधम् ॥ ४७ ॥
 
द्विजैः कृता या मे तिरस्कृतिस्तया यो रोषस्तेन हीनः । यद्वा द्विजानां तिरस्कृति-
स्तेषु रोषञ्च तद्रहितः ॥ ४७ ॥
 
एकेनैव शरेण बालकदलीकाण्डप्रभंगक्रमा-
त्कृत्तेषु प्रथमेषु दाशरथिना तालेषु सप्तस्वथ ।
अश्वाः सप्त जगन्ति सप्त मुनयः सप्ताब्धयः सप्त गाः
सत्यं सप्त च मातरो भयभृतः संख्यानसाम्यादिह ॥४८॥
 
सुगमम् । एते भयभृत आसन्नित्यन्वयः । तानाह- अश्वा रवेः सप्तगा: सप्तद्वीपाः ।
' गकारो गगनद्वीपगणेषु च गणेऽपि च ' इति संसारावर्तशब्दशासनः ॥ ४८ ॥
 
रामबाणः सक्षोभम् -
बाणः प्रमाणमधिगम्य वसुंधरायाः
संबोधयन्निव भुजङ्गमभङ्गभीत्या ।
 
ब्रह्माणमम्बर चरान्विधुनोति पक्षा-
नपुंखावशेष इति रामकराद्विमुक्तः ॥ ४९ ॥
रामकराद्विमुक्तौ बाणः पुंखावशेषः सन् इति पक्षान्विधुनोति कम्पयति । इतीति
किम् । सुजङ्गमः शेषस्तद्भङ्गभयेन अम्बरचरं ब्रह्माणं वोधयन्निव ॥ ४९ ॥