2023-03-19 23:53:18 by ambuda-bot
This page has not been fully proofread.
9. ]
दीपिकाख्यव्याख्योपेतम् ।
ये चत्वारो रामभरतलक्ष्मणशत्रुघ्नाख्यां राजपुत्रा दशरथसुता: जज्ञिरे, तेषां
चतुर्णी मध्ये रामस्ताटकैच कालरात्रिस्तस्याः प्रत्यूपोऽयं रामः । तद्धन्तायमित्यर्थः ।
ननु स्त्रीवधात्सागाः किन्नत्याह-अमल इति । अमलत्वे हेतुः-सुचरितं पुण्यार्थ चरितं
तस्य कथा नानाविनोदपरिहारवाक्यैर्गुणकथा सैव कन्दली तस्याः मूलस्यापि कन्दः
प्रसरणशीलानि मूलानि तन्निदानमध्यो प्रन्थिः कन्दः । यथा छिन्नापि कदली
उत्पद्यते एवमाच्छिन्नोऽपि धर्मो यतः पुनः पुनरुत्पद्यते । सर्वे कीदृशा इत्यपेक्षाया-
माह - दिनं करोतीति दिनकरस्तस्य कुले जातानां क्षत्रियाणां सन्तान एव वल्ली तस्या
माला परम्परा तस्या अम्लानस्तबकः पुष्पगुच्छ तेषां मधुपाः । रविवंशक्षत्रिय-
यशोवतंसमधुपा इत्यर्थः ॥ ४३ ॥
-
ततः-
श्रुत्वा बाली तदनु महतीं राघवस्य प्रतिज्ञां
तालान्तप्त प्रकृतिकुटिलान्प्रेरयामास योद्धुम् ।
सौमित्रिस्तानकृतसरलाञ्शेष पृष्ठस्थमूला-
न्भारेणांघेरथ रघुपतिः संदधे दिव्यमत्रम् ॥ ४४ ॥
अजेयानां हननकर्तृत्वान्महतीमित्युक्तम् । तालांस्तालवृक्षान्तर्गतदैत्यानेव । सौ-
मित्रिः अंप्रेभरेण चरणांगुष्ठाविष्कृतभूभारेण सरलानकृत । अत्र हेतुः - शेषपृष्ठस्था-
नि मूलानि येषां ते तान् । एतेनैवमुक्तं भवति । कुण्डलीभूतदेहशेषपृष्ठस्थमूलत्वात्
तेऽपि प्रकृतिकुटिला इति । कार्य निदानं हि गुणं विधत्ते इत्युक्तत्वात् । चरण-
भारेण शेषशिरः समाक्रमणात् सरलतया वृक्षा अपि सरला जाता इति सूचितम् ।
शेर्पा सुगमम् ॥ ४४ ॥
लक्ष्मणः सशंकं रामं प्रति । देव ज्ञात्वा बाणः प्रहर्त्तव्यः ।
यतः - एकदैव शरेणैकेनैव भिन्नकलेवराः ।
म्रियन्ते सप्त तालास्तं घ्नन्ति हन्तारमन्यथा ॥४५॥
अन्यथा एकदैव सप्तानामपि हुननाभावे तत्रापि एकेनैव बाणेन ॥ ४५ ॥
रामः सावज्ञम् -
मा भैषीर्मयि सौमित्रे राघवेऽधिज्यधन्वनि ।
सतां देहं परित्यज्य निर्जगामासत भयम् ॥ ४६ ॥ : .
.