This page has not been fully proofread.

[ अङ्कः-
हनुमन्नाटकं -
 
ततो हनूमान्सह लक्ष्मणेन रामेण सुग्रीवपुरः स्थितोऽभूत् ।
तांस्तत्र साक्षात्क्रपियूथनाथः पापानि दग्धुं दहनं ददर्श ॥ ४० ॥
रामेण सह । कीदृशेन रामेण । सह लक्ष्मणेन लक्ष्मणस हितेनेत्यर्थः । तान्हनूम-
द्रामलक्ष्मणान्दक्षिणाग्निगार्हपत्याहवनयान् ॥ ४० ॥
 
७४.
 
श्रुत्वा रामस्य कान्ताहरणमनिलंजस्याननाद्वानरेन्द्रो
निःश्वस्यात्मीयमस्यानुवदति पुरतस्तवलाद्वालिनोपि ।
हा नाथे विद्यमाने किमिति रघुपतिस्तं निहन्तुं प्रतिज्ञा
मारूढः प्रौढरोषानलबहलकलालंकृतोऽधिज्यधन्वा ॥ ४१ ॥
श्रुत्वेति । वानरेन्द्रः सुग्रीवः अस्य रामस्य पुरतोऽग्रिमवलादेव वालिनः सकाशा--
त्तत्प्रसिद्धमात्मीयजायाहरणश्रवणं लक्षीकृत्य वदति । रघुपतिः । तं वालिनम् । इति
किम् । कान्तापहरणदुःखानुभावज्ञत्वात् । अन्यत्सुगमम् ॥ ४१ ॥
नत्वा ससंभ्रममथो जगदेकवीर-
मालिंगयत्रघुपतिं शुशुभे कपीन्द्रः ।
तद्विस्मृतं पुनरिवाभ्यसते प्रियायाः
कन्दर्पके लिषु पुनद्भुतभाविनीषु ॥ ४२ ॥
 
नत्वेति । ससंभ्रमं सादरं विस्मृतं चिरं वियोगात्तत्प्रियाया आलिङ्गने कृतप्रतिज्ञे.
रामे द्रुतभाविनीषु शीघ्रभाविनीषु । अन्यत्सुगमम् ॥ ४२ ॥
 
सुग्रीवः-
अये मरुत्तनय कोऽसौ चतुर्णां ताटकान्तकः
मारुतिः-
ये चत्वारो दिनकरकुलक्षत्रसन्तान वल्ली-
मालाम्लानस्तबकमधुपा जज्ञिरे राजपुत्राः ।.
रामस्तेषामभवदमलस्ताटकाकालरात्रि-
प्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ॥ ४३ ॥
 
d
 
J