This page has not been fully proofread.

५..].
 
दीपिकाख्यव्याख्योपेतम् ।
रामः आभरणानि हृदये विन्यस्य गाढमालिंग्य-
सर्वेषु सत्स्वपि तवाभरणेषु हारो
नारोपितो हृदि चिरं हृदयंगतोऽपि ।
मुक्तार्थसूत्रगुणवेधविशुद्धराशि-
स्तत्पंक्तिभेदफलदारुण मित्यरोदीत् ॥ ३७ ॥
 
तावन्मात्रान्तरासहत्वान्नार्पितः । कीदृशो हारः । मुक्तार्थ मौक्तिकार्थ यः सूत्र-
गुणो डोरकस्तयुक्ता ये वैधकाः छिद्राणि तत्र विशुद्धा सा रत्नराशिः समूहो यस्य
सः अत एव दुःखं पंक्तिभेदफलेन दारुणम् । इति रुरोदेत्यर्थः ॥ ३७ ॥
पुनरपि -
 
अहह जनकपुत्री व मुद्रामपश्य-
. न्व्रजति परमहंसो नाक्षमो वापि गन्तुम् ।
तदुरुविरहवह्निज्वालया दग्धदेहः
किमुत पवनसूनोभूषणैस्तम्भितो मे ॥ ३८ ॥
मे
 
पुनरपि स्वजीवनेऽपि विचिकित्सति - अहहृति खेदे । हे पवनसूनो, मे मम परम-
हंसः परमात्मा जीव एव हंसः एतद्देहं विहाय न व्रजति तत्किम् ? गमने हेतुमाह-
जनक पुत्रीति । सोन्ततः त्वद्दत्तभूषणैस्तम्भितः उत अथवा गन्तुमक्षमः । अत्र हेतु-
माह - तदुरुविरहेति ॥ ३८ ॥
 
हनुमान्सानुनयम्-
श्रीराम क्षोणिपाल त्यज निजदयिताशोकमेकः सलोंक
लंकेशं जेतुमीशे तमपि कपिपतेराज्ञयाहं हनूमान् ।
सुग्रीवस्याथ सार्धे गिरिमवतरणं पादविन्यासलक्ष्मी-
निक्षेप/दुत्पलाक्ष क्षपितरिपुबलं दर्शनं त्वं च देहि ॥ ३९ ॥
तमपि विश्वजयिनं सलोकं लङ्कावासिराक्षससहितं कपिपतेः सुग्रीवस्य रावणस्तु
हनिष्यत एव । अथवा तावत्वं सुग्रीवस्यावतरणं, अवतीर्यते यस्मिन्नित्यंवतरणम् ।
वासस्थानगिरिं पादेविन्यासलक्ष्मीनिक्षेपात्साथै विधेहीति । कीदृशं गिरिदर्शनात्त्व-
दवलोकनादेव निरस्तशत्रुपक्षम् ॥ ३९ ॥
 
p