This page has not been fully proofread.

(2
 
हनुमन्नाटकं -
 
ततो वामं तिरस्कृत्य पुरस्कृत्य च दक्षिणम् ।
 
धन्यो वन्यशरण्यां तामरण्यानीं स्म गाहते ॥ ३२ ॥
 
वामं अशुभसूचकं काकं दक्षिणं शुभसूचकं खञ्जरीटम् । 'महारण्यमरण्यानीं
इत्यमरः । ततो वनान्तरे भ्रमन्किष्किंधामधिश्रित्य ॥ ३२ ॥
 
७२
 
[ अङ्क:-
किं च-
किष्किन्धाद्रौ रौद्ररुद्रावतारं दृष्ट्वा रामो मारुतिं वाचमूचे ।
.सीता नीता चेनचित्कापि दृष्टा हृष्टः कष्टं संहरन्प्राह वीर: ३३
किष्किन्धा गुहा तद्युक्तोऽद्रिः किष्किन्धाद्रिस्तत्र रौद्ररसाश्रयो रौद्रः एतादृशो
यो रुद्रः तदवतारम् । भो मारुते, केनचित्पापेन सीता नीता हृता । एतच्छ्रुत्वा हृष्टः
यातरोषो हनुमात्रामं कष्टं सम्परिहरन्नाह ॥ ३३ ॥
 
पापेनाकृष्यमाणा रजनिचरवरेणाम्बरेण व्रजन्ती
किष्किन्धाद्रौ मुमोच प्रचुरमणिगणैर्भूषणान्यर्चितानि ।
हा राम प्राणनाथेत्यहह जहि रिपुं लक्ष्मणेनालपन्ती
यानीमानीति तानि क्षिपति रघुपुरः कापि रामाञ्जनेयः ॥ ३४ ॥
पापेनेति । किष्किन्धाद्रौ आञ्जनेयो हनुमानिति तान्याभरणानि रघुपतिपुरः
चिक्षेप । तानि कानीत्याह । अन्त्ररेण आकाशमार्गेणाकृष्यमाणा कापि रामा यानि
किष्किन्धाद्री मुमोच ॥ ३४ ॥
 
रामः सकरुणं सबाष्पम्-
MODE
 
जानक्या एव जानामि भूषणानीति नान्यथा ।
वत्स लक्ष्मण जानीषे पश्य त्वमपि तत्त्वतः ॥ ३५ ॥
 
लक्ष्मणः सबाष्पम्-
कुण्डले नैव जानामि नैव जानामि कङ्कणे ।
नूपुरावेव जानामि नित्यं पादाभिवन्दनात् ॥ ३६ ॥
अन्यथा सं देहम् । तत्त्वतः सीतायाः सन्ति न वेति ॥ ३५ ॥ ३६ ॥