2023-03-19 23:53:18 by ambuda-bot
This page has not been fully proofread.
J
५. ]
दीपिकाख्यव्याख्योपेतम् ।
७१
वरुणस्यागस्त्यस्य तरुणी कान्ता सा च लङ्कापर्यन्तदेशविशेषाणां कामिन्यश्च तासां
नीरन्ध्रपीनस्तनादिभारान्तरालेषु अधिष्ठितो यः श्रीखण्डादिसम्भूतयक्षकर्दमस्तेन
विमर्दः सम्मर्दस्तस्माद्विवर्धितो यो विविधगन्धञ्चासौ कुसुमानां बहुपरिमलच तयोः
समुद्रारी प्रक्षेपको यः मारुत एवाशनं भोजनं यस्य स चासौ उत्थितः अर्धोदय-
श्वासौ क्षीरनीहारकाश्मीरस्फटिकशुद्धशंख कर्पूरकुन्दावदातः श्वेतोज्ज्वलश्वासौ महा-
भुजङ्गश्च तस्य स्फीताः ये फूत्काराः तैः प्रफुल्ला या फणा तस्याः मणौ शिखरे
क्रीडन्तम् ।
काकः कपोलस्थलसंस्थितो मे कोलस्य वामे व्यसनं सदौस्थ्यम् ।
राज्यं भुजंगस्य फणाधिरूढो व्यनक्त्य हो दक्षिणखञ्जरीटः ॥ २८ ॥
क्षणं विचिन्त्य विश्रम्य च सबाष्पम्-
भो भो भुजङ्ग तरुपलवलोल जिह्व
बन्धूकपुष्पवरशोभितपुष्कराक्ष ।
पृच्छामि ते पवनभोजनकोमलांगी
काचित्त्वया शरदचन्द्रमुखी न दृष्टा ॥ २९ ॥
भुजङ्गमः सुवाणीं कथयति-
गता गता चम्पकपुष्पवर्णा पीनस्तनी कुंकुमचर्चितांगी ।
आकाशगंगेव सुशीतलांगी नक्षत्रमध्ये इव चन्द्ररेखा ॥ ३० ॥
कोलस्य वराहस्य कपोलस्थलसंस्थितः स्कन्धमवलम्वितः सदौस्थ्यं समनोनवस्था-
नम् अहो एतदाञ्चर्यमेकदैवार्थद्वयसूचकशकुनत्वात् । दुःस्थितस्य भावो दौःस्थ्यं तेन
सह वर्तमानम् ॥ २८ ॥ २९ ॥ ३० ॥
रामः-
व्यसनं किमतोऽप्यास्ते ज्ञातश्वाभ्युदयो मम ।
-
शरणं मरणं राज्यं मा पुनर्लक्ष्मणेऽस्तु तत् ॥ ३१ ॥
ममाभ्युदयो ज्ञात एव उपस्थितराज्यभङ्गात्तर्हि दुःखं भवतु तत्राह - अतः सीता-
वियोगादपि अधिकं व्यसनं किमास्ते ? न किमपीति । मम तु मरणमेव शरणं चे-
त्पुना राज्यं स्यात्तर्हि लक्ष्मणे अस्तु तद्व्यसनं लक्ष्मणे मास्तु ॥ ३१ ॥