This page has not been fully proofread.

५.]
 
दीपिकाख्यव्याख्योपेतम् ।
पुनरपि प्रलपति-
हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।
इदानीमन्तरे जाताः पर्वताः सरितो द्रुमाः ॥ २५ ॥
 
.६७
 
सुगमम् । एतेन देवस्य दुर्लध्यत्वमुक्तम् ॥ २५ ॥
 
चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते
माल्यं सूचिकुलायते मलयजो लेपः स्फुलिंगायते ।
रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते
हा हन्त प्रमदावियोगसमयः संहारकालायते ॥ २६ ॥
 
चण्डकरो रविः तद्वदाचरति सूची वस्त्रवेधनलोहस्तत्कुलवदाचरति ' स्फुलिङ्गोऽ-
निकण: पुमान् ' इति विश्वः । एतत्पद्येन कुट्टमितं योतितम् । तदुक्तं रसोधौ-
'शशिपाटीरालेपं पङ्कजयाम्यानिलादिरुपयाति । सर्व दुःखदेतत्कुट्ट मितं तत्र सम्भ-
वति ' इति ॥ २६ ॥
 
मांस कार्यादभिगतमपां बिन्दवो वाष्पपाता-
चेजः कान्तापहरणवशाद्वायवः श्वासदैर्ध्यात् ।
इत्थं नष्टं विरहवपुषस्तन्मयत्वाच शून्यं
जीवत्येवं कुलिशकठिनो रामचन्द्रः किमेतत् ॥ २७ ॥
 
: तद्विरहे प्राणधारणादावात्मनि काठिन्यं प्रारब्धावश्यभोगत्वं दर्शयति मांसमिति ।
इत्थमुक्त प्रकारेण विरहवपुषः तस्मात्सकाशात्सर्वं तत्त्वजातं नष्टम् । एवं तत्त्वाभावेऽ-
पि सति रामचन्द्रो जोवति । यतः कुलिशकठिनः वज्रवत्कठिनहृदयः एतत्किमत्या-
श्चर्यम् । एतेन प्रारब्धावश्यभोगत्वं दर्शितम् । तत्त्वनिर्गमप्रकारमाह - अभिनवं स्व-
'सहचरं मांसं नष्टमभूत् । अविरलवाष्पपातादपां विन्दवोऽपि नष्टाः । कान्तापहरण-
वशात्तेजो नष्टं तेजोनाशः । श्वासदैर्ध्याद्वायवो नष्टाः । तन्मयत्वात्सीतागतान्तर-
त्वात् शून्यं आकाशनाशः । उक्तं च सिद्धान्तमुक्तावल्याम्-' तस्मिन्यत्कठिनत्वं सा
'भूस्तज्जलं यद्द्रवात्मकम् । तेजो भवद्यदुष्णं तत्संचरेद्यः स मारुतः । सुषिरं यत्तदा-
'काशमिति पश्चात्मकं वपुः' इति । कारणाभावात्कार्यस्याप्यभाव इति न्यायादत-
कार्येन्द्रियगणोऽपि नष्ट इति । उक्तं च तत्रैव-' श्रवणौ व्योमतो वायोस्त्वङ् नेत्रे