This page has not been fully proofread.

हनुमन्नाटकं -
 
अथवा-
आपुंखाग्रममी शरा मनसि मे मनाः समं पञ्च ते
निर्दग्धं मदनाग्निना वपुरिदं तैरेव सार्धं पुनः ।
 
us
 
[ अङ्क:-
कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो
दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥ २३॥
कामव्यथामनुभूयान्यवियोगिनोनुकम्पयन्निवाह-आपुङ्खाग्रमिति । अथवा मां
प्रहर वाणान्मा संवृणु । हे काम, तेऽमी पश्चैव वाणाः क्षोभनमोहनशोषणविद्रावण
निलायनशीला: एते आपुङ्खामं यथा स्यात्तथा सममेकदैव मम मनसि हृदये मना :
सन्ति । इदं मदीयं वपुस्ते तव बाणैः सार्धं मदनाग्निना निर्दग्धं दुग्धपटवज्जातम् ।
यद्वा मदनेति संबुद्धिः । अग्निना वियोगाग्निना जातं पूर्व यज्जितं तज्जितमेव । पुन-
रपि अधुना हे काम, भवता जनो लोक: जेतुं शक्यो न । यतस्त्वं निरायुधोसि
दुग्धवाणत्वादन्यास्त्राभावाच कष्टं यथा स्यान्तथा एक एवाहं दुःखी स्यां त्वद्वाण-
शल्यमरणत्वात् । अन्यो लोकः सुखं जीवतु त्वदातकाभावात् ॥ २३ ॥
 
तत्रापि क्षणं विकसिताशोकतरुतले विश्रा-
म्याह स्म दाशरथि :-
रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयो-
स्तुल्यं सर्वमशोककेवलमहं धात्रा सशोकः कृतः ॥ २४ ॥
हे अशोकवृक्ष, आवयोः सवै वृत्तं तुल्यं, परन्तु एतन्महद्वैलक्षण्यम् । यत्त्वं
अशोफः अहं धात्रा केनापि दुरदृष्टेन सशोकः कृतः प्रियाविरहितत्वात् । तुल्यत्व-
मेव द्योतयति—शिलीमुखा भ्रमराः वाणा अपि वा । स्मरधनुर्मुक्ताः पुष्पेभ्यो निर्मु-
क्ताः । पुष्पधन्वा उभयथा ग्राह्यः । अशोकः स्त्रोपादस्पर्शादलं विकसतीति श्रुतिः ।
रामेपि पादतलाहति: पद्माख्यवन्धाभिप्रायेण । तदुक्तं कामावतारे - 'घृतकपादा
जघने कुर्वन्त्यन्यपदाहतिम । शनैः शनैर्निधुवने पद्मबन्धस्तदा मतः ' इति ॥ २४॥
 
-