2023-03-19 23:53:16 by ambuda-bot
This page has not been fully proofread.
दीपिकाख्यव्याख्योपेतम् ।
अपि च लक्ष्मणं प्रति-
सौमित्रे दाववाह्निस्तरुशिखरगतो वार्यतां निर्झरौघैः
का वार्ता दाववहेरय मुदयगिरेरुज्जिहीते हिमांशुः ।
धत्ते धूमं हिमांशुः कथय कथमयं नैव धूमो धरण्या-
श्छायेयं संगताऽभूदयि धरणिसुते कुत्र कान्तेसि सीते ॥ २० ॥
भत्राप्युक्तिप्रत्युक्तिः । वार्यतां शाम्यताम् । उज्जिहीते उदयते । चन्द्रे श्यामत्व-
मालक्ष्याह - धूममिति । अयि इति कोमलामन्त्रणे ॥ २० ॥
रामः सकरुणं आत्मनि प्राणवल्लभायाः
परमप्रेमाणमधिगम्य -
S
५.]
६५
शंके शशांके जगुरकमेके पंकं कुरंगं प्रतिबिम्बितांगम् ।.
धूमं च भूमण्डलमुद्धताग्नेर्वियोगजातस्य मम प्रियायाः ॥ २१ ॥
,
आत्मनि हृदये एके कवयः शशाङ्के चन्द्रे अङ्कं जगुः । 'अङ्कं पदे लक्षणे च
हरशिरः स्थानं तदभावादनुज्ज्वलत्वम् एके पङ्कं वियोगिदुःखदातृत्वजन्यपापं श्याम
मेव । 'अस्त्री पङ्कं पुमान्पाप्मा' इत्यमरः । एके अस्मिन्नेव प्रतिबिम्बिताङ्गं कुरङ्गमेतं
चन्द्रवाहनं मृगं जगुः। मृगप्रतिविम्वमिति । चशब्दात्पुनर्ग्रहणं प्रतिबिम्बिताङ्गं भूम-
ण्डलं जगुः उक्तवन्तः । उक्ताक्षेपोयमिति । अहं तु प्रियायाः सीतायाः सकाशा-
दुद्यतो योऽग्निस्तस्य धूमं शंके मन्ये । कीदृशस्योद्धताः । मम वियोगजातस्य २१॥
रेरे निर्दय दुर्निवार मदन प्रोल्फुल्लपंकेरुहा-
न्वाणान्त्संवृणु संवृणु त्यजं धनुः किं पौरुषं मां प्रति ।
कान्तासंगवियोगजातहुतभुग्ज्वालाप्रदग्धं वपुः
शूराणां मृतमारणे नहि वरो धर्मः प्रयुक्तो बुधैः ॥ २२ ॥
अथ सीतास्मरणादुच्छ्रितं काममाक्षिपति रेरे इति । रेरे निर्दय कृत्यज्ञानहीन
भी दुर्निवार दुराग्रह मदन ! पेरुहानेव बाणान् संवृणु संवृणु उपसंहरेति सम्भ्रमे
वीप्सा । नमेत्यध्याहारः । वपुः कान्तासङ्गस्य यो वियोगः तेन जातो यो हुतभुक्
अभिस्तस्य ज्वालाभिः प्रदुग्धमस्तीति । अन्यत्सुगमम् ॥ २२ ॥