This page has not been fully proofread.

[ अङ्क:-
६४
 
हनुमन्नाटकं -
 
इति शब्देन दया किंशब्देन प्राप्तिरिति । ' समाप्तौ च परिच्छेदे दयायामिति सम्म-
तम् ' इति धरणिः । ' निन्दने च वितर्फे च प्राप्तौ प्रश्ने किमप्ययम् ' इति विश्वः
शङ्कोक्ता रसोदधौ - ' स्वीयापराधचोर्यादितो मता शङ्का ' इति ॥ १७ ॥
 
ततः कथमपि भगवति भास्करेऽस्ताचलावलम्बिनि प्रलय-
कालोदितप्रचण्डमार्तण्डमण्डल मिवोदितं चन्द्रमण्डलं तरुण-
कोपारुणदारुणं तरणिनन्दनमिवावलोक्य रामः- .
सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते
चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति ।
वत्सैतद्भवता कथं नु विदितं धत्ते कुरंगं यतः
 
क्वासि प्रेयसि हा कुरंगनयने चन्द्रानने जानकि ॥ १८ ॥
 
wyding
 
' वियोगिपापिविरहिजीवपु तरुणोऽस्त्रियाम् ' इति चरकः । वलात्तरुणेषु वियो-
गिषु यः कोपस्तेनारुणं चन्द्रमण्डलं, यद्वा तरुणेपु पापिजनेषु यः कोपस्तेनारुणं
तरणिनन्दनं यममिवेति कुरङ्गनयननिभे चञ्ञ्चले नयने यस्याः सा । मध्यमपदलोपी
समासः । उक्तिप्रत्युक्त्यार्थज्ञानं विपमोऽयमलंकारः । तल्लक्षणं पूर्वमुक्तम् ॥ १८ ॥
रामचन्द्रमधिक्षिपति-
मन्दरेण मथितोऽसि न पापिञ्ज्वलितोऽसि तमसा न दुरात्मन् ।
त्वां शरेण शतधा परिनिन्ये जानकीमुखसमो यदि नस्याः १९ ॥
मन्दरेणेति । हे पापिन्परसन्तापदातः, मन्द्रेण गिरिणा अब्धिमन्थने न माथि-
तोसि न चूर्णीकृतः ? ततोऽपि तमसा राहुणापि न ज्वालित: ? क्रोधाग्निना न
दुग्धः ? 'तमस्तु राहुः स्वर्भानुः' इत्यमरः । स्वाशक्तौ मोहिनीसूचनेनापि दुरात्म-
नित्युक्तम् । ताभ्यां परिमुक्तमपि त्वां अहमेव शतधा शतप्रकारं परिनिन्ये प्राप
यामि । यदि त्वं जानकीमुखसमो न स्याः । अत्रोन्मादावस्थान्तरङ्गवाचिकव्यथो-
दिताऽऽयासो दर्शितः । तदुक्तं रसोदधौ-' स्यादुन्मादः कान्ताचित्तव्यथागोचरा-
यासः । कायिकवाचिकभेदाद्विघोदितोऽयं व्यथोदितायासः । तत्समं द्रव्यं दृष्ट्वा
यदुपालम्भः स वाचिकाख्यः' इति । तत्समं द्रव्यं मुखादि सदृशं चन्द्रादि ॥ १९॥
 
,