This page has not been fully proofread.

हनुमन्नाटकं -
 
ज्ञात्वा दशरथस्यैनं मित्रं शत्रुनिषूदनम् ।
हा तात किमिदं नाम रामः पक्षीन्द्रमब्रवीत् ॥ १३ ॥
इदं तव किं जातम् ? ॥ १३ ॥
 
जटायु:-
[ अङ्क:-
-
 
अर्धरात्रे दिनस्यार्धे अर्धचंद्रेऽर्धभास्करे ।
 
रावणेन हता सीताकृष्णपक्षे सिताष्टमी ॥ १४ ॥
 
[4]
 
अर्धेति । दिनस्यार्धे देवदिनस्यार्धे सति तेन चैत्र उक्त: । मकरादिपटू दिनं
कर्कादिषट् निशेति श्रीपतिः । ' मासेन स्यादहोरात्रः पैत्रो वर्पेण दैवतः ' इत्यमरः ।
तत्राप्यर्धरात्रे सति पितॄणामर्धरात्रे सति, अकृष्णपक्षे पितॄणां पाक्षिकी रात्रिर्भवति ।
तदर्धे पक्षार्धे सति कस्य पक्षस्येन्यपेक्षायामाह- कीदृशे अर्धरात्रे । अकृष्णपक्षे अकृ-
रणः शुक्ल: पक्षो यस्मिन् । एतेन चैत्रशुक्लपक्षो द्योतितः । पुनः कीदृशे अर्धरात्रे ।
अर्घः अष्टकलश्चन्द्रो यस्मिन् । तत्रापि कस्यां तिथौ हृतेत्यपेक्षायामाह - यत्र यस्मि-
न्दिने सिताष्टमी सितेन शुक्रेण युता अष्टमी । मध्यमपद्लोपी समासः । तत्रापि
कस्यां वेलायामित्यपेक्षायामाह- कस्मिन्सति । अर्धभास्करे सति मध्यंदिनवर्तन्या-
दित्ये सति । सर्वपदैश्चैवमुक्तं भवति । चैत्रशुक्लपक्ष सिताष्टमीमध्याह्ने सीता हृतेति ।
केचिदेवं व्याकुर्वन्ति कृष्णपक्षे सीता हृता ' कृष्णोऽस्त्री माघकृष्णयोः' इति
चरकः । कीदृशे कृष्णपक्षे । पितणामर्धरात्रे शुक्लपक्षः पितणां रात्रिः । पुनः किंभूते
दृष्टः माघस्नाननिमित्तं अर्धभास्करो यस्मिन् । 'अर्धोदिते रवौ स्नातो माघे स्वर्ग-
मितो भवेत् ' अन्यत्पूर्ववत् । एतदर्थेन एवमुक्तं भवति । माघशुकृपक्षसिताष्टमी-
मध्याह्न सौता हृतेति । उक्तं च वाराहपुराणे - 'चैत्रमाससिताष्टय्यां मुहूर्ते वृन्द-
संज्ञिते । राघवस्य प्रियां सीतां जहार दशकन्धरः' इति वृन्दः । पूर्वाह्न इति
धरणिः ॥ १४ ॥
 
यत्रेति वाक्यशेषः रामः-
भनोऽयं कथमस्ति रावणरथस्तातेन वज्रांकुर-
ऋरावस्करणेन भंगुरलसत्कोटित्रुटज्ज्यं धनुः ।
हे सीरध्वजराजपुत्रि स तथा दृष्टस्त्वया धन्यया
पक्षीन्द्रो दशकण्ठकुञ्जरशिरः संचारिपञ्चाननः ॥ १५ ॥