2023-03-19 23:53:16 by ambuda-bot
This page has not been fully proofread.
-
५.]
दीपिकाख्यव्याख्योपेतम् ।
हे गोदावरि पुण्यवारिपुलिने सीता न दृष्टा-त्वया
सा हर्तुं कमलानि चागतवती याता विनोदाय वा ।
इत्येवं प्रतिपादपं प्रतिनगं प्रत्यापगं प्रत्यगं
प्रत्येणं प्रतिबर्हिणं तत इतस्तां मैथिलीं याचते ॥ ११ ॥
६१
ततोऽवतीर्य गोदावरीमासाद्याह - हे गोदावार, त्वया सीता न दृष्टा । कमला-
न्याहर्तुमागतवती रम्यवारिपुलिने विनोदाय वा आगता । इत्यनेन प्रकारेण । एवं
यथा गोदावरी पृष्टा तथैव प्रतिपादपं पादपं पादपं प्रति जानकीं याचते स्म । इति
सर्वत्र युज्यते । आपगा नदी । अगो गिरिः । एणो मृगः ॥ ११ ॥
पुनर्लक्ष्मणमासाद्य वैकुव्यं नाटयति-
के यूयं वद नाथनाथ किमिदं दासोऽस्मि ते लक्ष्मणः
कोऽहं वत्स स आर्य एवं भगवानार्यः स को राघवः ।
किं कुर्मो विजने वने तत इतो देवी समुद्रक्ष्यते
का देवी जनकाधिराजतनया हाहा मिये जानकि ॥ १२ ॥
वद यूयं के ? एकवचने बहुवचनं वैक्लव्यादेव । तत्र लक्ष्मण:- हे नाथनाथ -
आदरे वीप्सा संभ्रमे वा । यद्वा हे नाथनाथ, नाथा: ब्रह्मादयस्तेषामपि नाथ स्वा-
मिन्, इदं वैक्लव्यं किम् । अहं ते दासः लक्ष्मणोऽस्मि । हे वत्स, अहं कः?
लक्ष्मणः-
स इति प्रसिद्धः आर्य एव भगवानचिन्त्यैश्चर्यः । रामः स - आर्यः कः ? लक्ष्मणः-
राघवः रघुवंशजन्मा । रामः - अत्र विजने जनशून्ये बने किं कुर्म: ? लक्ष्मणः-
इत-
स्ततो देवी समुद्रीक्ष्यते । राम: - देवी का ? लक्ष्मणः-जनकाधिराजतनया । रामः-
हा कष्टं हे प्रिये हे जानकि ! विपमोयमलंकारः । उकं च वीरभानौ - ' उक्तिप्रयुक्ति
चातुर्यान्निवद्धो विपमो मतः ' इति ॥ १२ ॥
सौमित्रिणा सह रामः, अत्रान्तरे वनान्तं पर्यटञ्जनकतनया-
तापिनः पापिनो रजनिचरपतेर्भुजभुजङ्गमण्डलीखण्डितो-
रगवधूवैधव्यधातारं विपक्षरक्षसा निहतं घोरसमरमूच्छित
पक्षिराजं जटायुषं भयं च रावणरथमालोक्य-