This page has not been fully proofread.

१. ]
 
दीपिंकाख्यव्याख्यापेतम् ।
 
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ ३ ॥
तं रामं रावणारिं दशरथतनयं लक्ष्मणायं गुणाढ्यं
पूज्यं प्राज्यं प्रतापावलयितजलधिं सर्वसौभाग्यसिद्धिम् ।
विद्यानन्दैककन्दं कलिमलपटलध्वंसिनं सौम्यदेव
सर्वात्मानं नमामि त्रिभुवनशरणं प्रत्यहं निष्कलङ्कम् ॥ ४॥
 

 
-
 
अथ विद्यावानिति नेतृगुणं वक्तुं पद्यमवतारयति-यमिति । यं रामं शैवाः शिव-
भक्ताः शिवेति नाम्ना समुपासते 'महारुद्रादभूत्प्रकृतिरतः सूत्रं ततोऽहमिति ततो
विश्वम् ' इति श्रुतेः । वेदान्तिनो ब्रह्मेति' एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचन'
इति श्रुतेः । बौद्धा बुद्ध इति 'प्राण्यालम्भनं संसृति नन्दयेति माम् ' इति श्रुतेः ।
प्रत्यक्षानुमानोपमानशब्दाभावार्थप्रतिपत्ति
प्रमाणानीति प्रमाणेष्वेव निपुणा नैया-
यिकाः कर्तेति 'सनातनाः पशवः प्रविशन्ति प्रमेयानुभूतैः कर्तेच ततः' इति श्रुतेः ।
जैनाज्ञाभिरता अर्हन्निति 'स्वभाव एवेश्वरो नान्योऽस्ति कदाप्यस्यानीहशत्वापत्तेः '
इति श्रुतेः । मीमांसकाः कर्मेति 'कर्मणा जायते नश्यति भयाभयसुखानि' इति
श्रुतेः । एतैस्तदुपशिक्षितमगरेव यमुपासते सोऽयं रामो वाञ्छितफलं विदधातु ।
एतेन विद्यावत्त्वमुक्तम् । हरिरित्यनेन दुःखहारित्वात्परप्रेमगुणो दर्शितः । त्रैलोक्य
'वासिजनैस्तत्तद्देवताभजनेन तत्तत्फलं प्रतिनाथ्यते याच्यते इत्यनेन दातृत्व
मुक्तम् ॥ ३ ॥ ४॥
 
अथोपक्रमः ।
आसीदुद्भट भूपतिप्रतिभटप्रोन्माथिविक्रान्तिको
भूपः पंक्तिरथो विभावसुकुलप्रख्यातके॒तुर्बली ।
उर्वी बर्बरभूरिभारहरणे भूरिश्रवाः पुत्रतां
 
यस्यार स्वमथो विधाय महितः पूर्णश्चतुर्धा विभुः ॥ ५ ॥
 
इदानीं कथायोजनाय व्याख्याकृदात्मनः श्लोकचतुष्टयमवतारयति- आसीदि-
त्यादि । पंक्तिरथो दशरथो भूपो राजा आसीत् । सकः । यस्य भूरिश्रवा नारा-