This page has not been fully proofread.

६०
 
हनुमन्नाटकं -
 
सीतेति हा जनक वंशजवैजयन्ति
हा महिलोचन चकोरनवेन्दुलेखे ।
इत्थं स्फुटं बहु विलप्य विलप्य राम-
स्तामेव पर्णवसतिं परितश्वचार ॥ ८ ॥
हा जानकि प्रचलितोत्पलपद्मनेत्रे
 
हा मे मनःकमलकाननराजहंसि ।
 
एष प्रिये तव वियोगजवह्निदग्धो
 
दीनं प्रयामि भवर्ती व विलोकयामि ॥ ९ ॥
 
[ अङ्कः-
.
 
गहराणि सघनानि कान्ताराणि दुर्गवर्त्मानि येषु तानि गाहं गाहं अवगाह्य । अत्र
सर्वत्र ल्यवर्थे णमुल् । तस्मिन्सति द्वित्त्रम् । कामभट्टीरिव वल्ली: दर्शदर्श दृष्ट्वादृष्ट्वा
स्मारंस्मारं स्मॄत्वास्मृत्वा । कीदृशीं कान्ताम् । कस्य रामसुखस्य अंतोऽस्याः तां
विरहेण रामदुःखदामिति । अनिचरो भूत्वा पर्वतचरो भूत्वा दीनं यथा स्यात्तथा
अरोदीन् ॥ ६ ॥ ७॥ ८ ॥ ९ ॥
 
रे वृक्षाः पर्वतस्था गिरिगहनलता वायुना वीज्यमाना
रामोऽहं व्याकुलात्मा दशरथतनयः शोकशुक्रेण दग्धः ।
बिम्बोष्ठी चारुनेत्री सुविपुलजधना बद्धनागेन्द्रकांची
हा सीता केन नीता मम हृदयगता को भवान्केन दृष्टा ॥ १० ॥
 
हे वृक्षाः यूयं पर्वतस्थाः । उच्चस्यैः सर्वे दृश्यत इति ध्वनितम् । केनापि सीता
नीता हता वा । भवतां मध्ये केनापि दृष्टा ? कोहशा यूयम् । गिरिगहनलताबायुना
श्रीज्यमानाः । एतेन वायुवशात्तत्रस्थाऽपि सीता भवद्भिर्ज्ञायत एवेत्युक्तम् । इत्युक्ते
वृक्षा ऊचुः-भवान्कः ? राघव आह । अहं रामः । शोक एव शुक्रोऽग्निस्तेन दुग्धः।
'सप्ताचिर्दमुनाः शुक्र: ' इत्यमरः । तर्हि कीदृशी सीतेत्यपेक्षायामाह - चिम्बोष्टी -
त्यादि । वद्धा नागेन्द्रस्येव फाञ्चिर्यया सा। यद्वा बद्धा नागेन्द्रस्य काञ्चिर्यया सां।
' करिकुम्भमणिस्तोमनानारत्नोत्करेधिता। मध्ये कुम्भाकृतिः स्वर्णा सा नागेन्द्राख्यया
मता ' इति ॥ १० ॥