This page has not been fully proofread.

हनुमन्नाटकं -
 
पञ्चमोङ्कः ।
 
रामः प्राणोत्क्रमणसमयादपि घोरतरं वियोगसमयमधिगम्य
पर्णशालान्तरालमालोक्य कथमपि विदीर्णहृदयमार्गादुज्जि-
गमिषून्प्राणान्धारयंस्तदुत्तरीयमुपलभ्य जानकी स्मरन्नरोदीत् -
द्यूते पणः प्रणयकेलिषु कण्ठपाशः
क्रीडापरिश्रमहरं व्यजनं रतान्ते ।
शय्या निशीथसमये जनकात्मजायाः
 
५८
 
[ अङ्कः-
प्राप्तं मया विधिवशादिदमुत्तरीयम् ॥ १ ॥
 
ततो रामस्य किं वृत्तमासीत्तदाह - घृतेति । विधिवशाद्दैवयोगाजनकात्मजाया
इदमुत्तरीयं मया प्राप्तम् । किं तत् । यत्तदोर्नित्ययोगात् यत् द्यूते पण इत्यादि सबै
सुगमम् ॥ १ ॥
 
बहिरपि न पदानां पंक्तिरन्तर्न काचि -
त्किमिदमियमसीता पर्णशाला किमन्या ।
अहमपि किल नायं सर्वथा राघवश्वे-
त्क्षणमपि नहि सोढा हन्त सीतावियोगम् ॥ २ ॥
 
तञ्चरणचिह्नमालक्ष्य विचिकित्सति - बहिरिति । वहिरपि पर्णशालावहिर्भागऽपि
काचित्त्रियः पुरुपस्य वा पदानां पंक्तिरन्तः कुटीमध्येऽपि न । तदिदं किमिति वि-
चिकित्सा । इयं याऽत्रस्था सा असीतैव न पर्णशालेवान्या किं किल । सर्वथा
अयमहं राघव एव न चेत्स्यान्तर्हि क्षणमपि सीतावियोगं न सोढा । एतेनोन्मादो
दर्शितः । तदुक्तं रसोदधौ -' प्रौढानन्दायत्तो विरहात् योहन्द्रमः स उन्मादः
इति ॥ २ ॥
 
मध्योऽयं हरिभिः स्मितं हिमरुचा नेत्रे कुरङ्गीगणैः
कान्तिश्चम्पककुड्मलैः कलरवो हा हा हृतः कोकिलैः ।
मातंगैर्गमनं कथं कथमहो हंसर्विभज्याधुना
कान्तारे सकलैर्विनाश्य पशुवन्नीतासि भो मैथिलि ॥ ३ ॥