This page has not been fully proofread.

४.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
जटायुरात्मानं शोचयन्नाह । राज्यं विषयो यस्याः त्वद्राज्यं पालयामीति मैत्री
न नियूढा न निप्पन्ना । सुकृतिनो रामस्य यतः किमपि कृतं न जातम् । अत एवं
भाग्य र हितमिति सन्तापमकरोदिति ॥ १३ ॥
 
हा राम हा रमण हा जगदेकवीर
हा नाथ हा रघुपते किमुपेक्षसे माम् ।
इत्थं विदेहतनयां मुहुरालपन्ती-
मादाय राक्षसपतिर्नभसा जगाम ॥ १४ ॥
हा रामेति । उपेक्षसे उपेक्षां करोपि ॥ १४ ॥
 
आकृष्यमाणाभरणानि मुक्त्वा सैरध्वजी मारुतिमद्रिमौलौ ।
उमाच रामाय सलक्ष्मणाय वराय देयानि सदेवराय ॥ १५ ॥
 
आकृष्येति । आकृष्यमाणा सैरध्वजी सीरध्वजो जनकस्तदपत्यं स्त्री सैरध्वजी
सीता । अद्रिमौलौ गिरिशिखरे स्वाभरणानि मुक्त्वोन्मुच्य मारुतिं हनुमन्तमुवाच ।
किमुवा चेत्याह-वराय श्रेष्ठाय रामाय, देवराय पतिभ्रात्रे लक्ष्मणाय चाभरणानि
देयानि ॥ १५ ॥
 
रामः शुष्के स्थाणौ दक्षिणे रटन्तं करटमवलोक्य पुनरा-
गच्छन्निजप्राणप्रयाणमेव मन्वानः क्षणं विश्रम्य ।
मायाकुरंगं विनिहत्य रामो भात्रा सहागत्य च पर्णशालाम् ।
कोणत्रयेषु प्रसमीक्ष्य सीतां दृष्टश्चतुर्थो न च शोकभीत्या १६ ॥
इति श्रीमद्धनुमन्नाटके सीताहरणं नाम चतुर्थोऽङ्कः ॥४॥
 
• राम इति । दक्षिणभागे शुष्के स्थाणौ नीरसवृक्षखण्डे करटमवलोक्य पुनरागच्छ-
न्मारीचं हत्वा पर्णशालां प्रत्यागच्छन्सन् ' काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः '
इत्यमरः । कोणत्रयेषु सीतां प्रसमीक्ष्य चतुर्थः शालाकोणस्तेन रामेण न दृष्टः ।
कया तदलाभातिशोकभीत्या इत्यर्थः ॥ १६ ॥
 
इति श्रीमिश्र० हनुम० टीकायां सीताहरणं नाम चतुर्थोऽङ्कः ॥ ४ ॥