2023-03-19 23:53:14 by ambuda-bot
This page has not been fully proofread.
५६
हनुमन्नाटकं -
चंच्चाक्षेपत्रहारत्रुटित धमनिभिर्दिक्षु विक्षिप्यमाणै-
राशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि ॥ १० ॥
जटायु: क्रोधमभिनीय-मा भैषीर्भयं मा कार्पी: । दारशन्दो भूम्त्येव । दशभिं-
स्त्वच्छिरोभिर्दशानामाशापालानामुपहारं करोमि । करिष्यामीत्यर्थः । कीदृशैः शि-
रोभिः । दिक्षु दशसु दिशासु विक्षिप्यमाणैः । पुनः कीदृशैः । चश्चोः आक्षेपेण
ये प्रहारास्तैस्त्रुटिता धमन्यो नाड्यो येषां तैः । ' नाडी तु धमनि: शिरा' इति
विश्वः । अन्यत्सुगमम् ॥ १० ॥
अक्षं विक्षिपति ध्वजं दलयते मृङ्गाति नद्धं युगं
चक्रं चूर्णयति क्षिणोति तुरगान् रक्षःपतेः पक्षिराट् ।
रुन्धन्गर्जति तर्जयत्यभिभवत्यालम्बते ताड़य-
त्याकर्षस्यवलुम्पति प्रचलति न्यञ्चन्युदंचत्यपि ॥ ११ ॥
अक्षमिति । पक्षिराट् जटायू रक्षः पतेः रावणस्याक्षं चक्रान्तरालं काष्ठं विक्षिपति
विरूद्धं चालयति । दलयते त्रोटयति । मृगाति मयति । गर्जति स्वयं तर्जयति ।
तमभिभवति तिरस्करोति । आलम्वते मार्गमवलम्व्य तिष्ठति । ताडयति तं प्रह-
रति । आकर्षति तत्केशान्विलिखति । अवलुम्पति तद्वासांस्यपहरति । प्रचलति
स्वपक्षलाघवमाविष्करोति । न्यश्चति शिरस्तत्प्रहारपातेन स्वयं नम्रीभवति । उदश्वति
स्वचरणकृततत्प्रहारवञ्चनाय उचैर्गुच्छति ॥ ११ ॥
क्रुद्धस्ततो दृढचपेटशिलातलेन
रक्षः पिपेष गहनेऽद्भुतपक्षिराजम् ।
ईषत्स्थितासुरपतद्भुवि राम राम
रामेतिमन्त्रमनिशं निगदन्मुमुक्षुः ॥ १२ ॥
रावणः क्रोधं नाटयति- ऋद्ध इति । करतलप्रहारः स एव शिलातलस्तेन ॥ १२॥
न मैत्री निर्व्यूढा दशरथनृपे राज्यविषया
न वैदेही त्राता हठहरणतो राक्षसपतेः ।
न रामस्यास्येन्दुर्नयनविषयोऽभूत्सुकृतिनो
जटायोर्जन्मेदं वितथमभवद्भाग्यरहितम् ॥ १३ ॥
[ अङ्क:-